SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ [श्रीसम्भवजिनस्तवनम्] प्रातःप्रातर्भवत्पाद-पङ्कजस्य स्मरन्ति ये । लक्ष्मीर्दवीयसी तेषां, नृणां किं देव! सम्भव! ॥१॥ अयं संसारपाथोधि-स्तेषामेव भयङ्करः । निःशेषमार्गसन्दर्शी, त्वं न येषां नियामकः ॥२॥ प्रसीद सीदतेऽमुष्मै, जगते जगतः पते! । निदे(धे)हि विदलं(विमलां?) कुन्द-काशोत्सङ्गोज्ज्वलां दृशम् ॥३॥ विकाशिमल्लिकाभासो, यत्र खेलन्ति ते दृशः । तस्यांऽहिपीठे खेलन्ति, शक्रचूडामणित्विषः ॥४॥ प्रभौ देवेऽपि लोकोऽयं, क्लिश्यते यत् तदद्भुतम् । साम्राज्ये भास्वतः किं स्यु-निश्रियः कमलाकराः? ॥५॥ येषां त्वं शासकस्तेषां, गुरूणामपि लाघवम् । इदं प्रमोदवैषम्यं, न गम्यं मन्दमेधसाम् ॥६॥ न यद् वाच्यं न यस्याऽन्तः, परं यस्मान्न किञ्चन । सम्भवे सम्भवेदेव, देवे तुष्यति तन्नृणाम् ॥७॥ याऽपनीय तमस्तोमं, प्रकाशं कुरुते परम् । यापनीयमिदं विश्वं, पवतां सा भवद्गवी ॥८॥ भवं तिसृषु निक्षिप्य, ये विनिघ्नन्ति गुप्तिषु । भवन्ति देव! ते मुक्तेः, कण्ठपीठविलोठिनः ॥९॥ मानवानां भवद्वाक्य-सुधाबन्धुरचेतसाम् । मा नवा पाणिपद्मं चे-दावसेत् किमु कौतुकम्? ॥१०॥ का पिमाकिनि सद्बुद्धि-स्तत्र देव! सुमेधसाम्? । काऽपि नाकिजनसु(स्तु?)त्या, न यत्र प्रशमस्थितिः ॥११॥ तत् त्वं [प्रभो!] प्रसीदाऽस्य, दास्यसन्त्रस्तचेतसः । विश्वस्य येन सा काचि-दाविरस्ति स्वतन्त्रता ।।१२।। रोमाञ्चपक्ष्मलतनुः कनकाभिराम!, चन्द्रांशुपुञ्जधवलं भवतो गुणौघम् । यः स्तौति संस्मरति गायति च त्रिसन्ध्यं, तत्र स्वयं भगवती समुपैति मुक्तिः ॥१३॥ *** Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy