________________
ओगस्ट - २०१३
४३
मिथ्यानृते स्मृतौ चिन्ताप्रशंसायां तु रोचना । भद्रा च लोचना दीप्तौ रह:सामर्थ्ययोरमा ॥१९।। आस्थाऽऽदरे प्रतिज्ञायां चास्ता स्यान्निर्मलीकृतौ । प्राजवीजा द्रुहार्या च शोभायां ह्योपधौ क्रमात् ॥२०॥ रोपणे चाप्यं गृहं वृक्षे धनं त्रिषु । प्रयोजने पर्यटने संसर्पार्थे प्रयोजने ॥२१॥ अग्नौ तैक्ष्ण्येऽस्वतन्त्रत्वे वशे सन्तापहिंसयोः । प्रविभ्यां कपेने सामर्थ्योत्साहे सहने प्रवेः ॥२२।। रुच्याभिनवयोः क्लेदे लवणोष्णोदकाः समः । सोदकेऽभिनवे च स्यादाढूँ शीतमनादरे ॥२३।। नमः प्रणामे प्रकाश्ये प्रादुराविरयं गणः । हस्ते पाणौ सदोद्वाहे प्राध्वं बन्धे विपर्यये ॥२४॥ कार्षापणं गतः कृत्वा शब्दाग्रे शकटं गतः । जीविकोपनिषच्चैवेतां कृत्वेत्युपमा विना ॥२५।।
॥ इति खाडादिः ॥ छ ।
उपसर्गाः क्रियायोगे प्रपरापसमन्ववाः । निर्दुर्व्याडोन्यधिप्रत्युदभिसुप्रतिपयुयाः ॥१॥ गतार्थाधिपरीना;तिक्रमेऽतिः सुरर्चने । पूर्वं त्वनियमात्वाभ्यामागंतौ वा गमे: परौ ॥२॥ अधेरुपरिभावोऽर्थः प्रस्तावादेः प्रतीयते । परेश्च सर्वतोभावो गतार्थत्वं द्वयोरितस्ततः ॥३॥ प्रस्तावाद्यप्रतीतेऽर्थे द्योत्ये नियतपूर्वता । सुषिक्तं भवतैवं सुर्धात्वर्थोऽत्र प्रशस्यता ||४|| सुषिक्तं किं तवात्रेति षत्वं धात्वर्थकुत्सनात् । निष्पन्नेऽपि क्रियासाध्येऽस्याः प्रवृत्तिरतिक्रमः ॥५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org