________________
१०
४९ व्याघ्रो (धो) डुङ्गर घुम्नेन, यच्चिन्तयति तत् सृजेत् । नो चेदग्रेसरो" भूत्वा, जीरापल्लीं कथं व्रजेत् ? ||३१|| एतेषु ये सम्प्रति वर्तमानाः, सद्धर्मकर्मा जनसावधानाः । त्यक्ताभिमाना गुरुदत्तमानाः सुदत्तदाना नृपतिप्रधानाः ||३२|| सर्वेऽपि ते श्रीविमलेश्वरस्य चैत्याय सदैवतशेखरस्य ।
आत्मीयतां वाऽपरतां निरस्य, सम्प्रेषयन्ति स्वधनं वरस्य ||३३|| युग्मम् ॥ ५२ तद्युक्तं यच्च गोधाख्यो, वहेत् पुण्यमनोरथम् । सहस्त्रकिरणः सङ्घ, वस्त्राणि परिधापयेत् ||३४|| ५३ सुदर्शनभृत् श्रीवत्सः, श्रीनिधिः सङ्घनायकः । उपाध्यायपदोद्भु(द्भू?)तः श्लोकः सर्वैस्तु लेभिरे ||३५|| श्रीसङ्घोऽन्योऽथ धन्यो वितरणविदितस्तन्निरीक्ष्य स्वचित्ते चिन्तामेवं प्रचक्रे सुकृतकृतधियो ह्येत एवाऽत्र विश्वे । ये प्रासादे स्वकीये सति धनमतुलं प्रेषयन्त्यन्यचैत्ये नाऽस्माभिस्त्वेकतीर्थे तदनु स सकल : प्रापये (य)त् तत्तदर्थे ||३६|| अवषोऽप्यजीत: (जित) स्वामी, यत्रस्थो रैवताचले । प्रहिणोति धनं तर्हि सवृषाणां किमुच्यते ? ||३७|| अचलं त्वचलं प्राप्य, तद्वित्तं यद् भवेत् किल । तद्युक्तं परमेतेषां कूटस्थं तदिहाऽद्भुतम् ||३८|| श्रीरत्नसिंहसूरीश पट्टपूर्वाद्रिभास्वताम् । श्रीपूज्योदयवल्लभ - सूरीणामुपदेशतः ॥ ३९ ॥
मण्डपो मण्डपस्थेन, श्रीसङ्गेनाऽत्र कारितः । प्रासादे विमलेशस्य, जयताज्जगतीनुतः ॥४०॥ युग्मम् ॥
॥ इति श्रीमण्डपीय श्रीसङ्गप्रशस्तिः ॥
,
४९. मु. प्रश. श्लो. ५० ५१. ' री' इति मु. प्रश. । ५३. मु. प्रश. श्लो. ४५
Jain Education International
,
,
अनुसन्धान-६२
५०. 'सारेण' इति मु. प्रश. । ५२. मु. प्रश. श्लो. ४४
For Personal & Private Use Only
www.jainelibrary.org