________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
सप्तदशभेदपूजा-विरचनमाविःकरोति यत्रोच्चैः । श्रेय:श्रीसंवननो-ल्बणौषधीकल्पतां शश्वत् ॥३९।। यत्रेहितमर्थिभ्यो, ददतां लक्ष्मीवतां मुदा पञ्च । दक्षिणहस्ताङ्गुलयः, पञ्चसुपर्वद्रुमायन्ते ॥४०|| जनसंघट्टात्रुट्य-न्मुक्ताहारैर्मृगीदृशां सङ्गः । वैराग्यादिव यत्र च, कल्पश्रवणात् परित्यक्तः ॥४१॥ यत्र व्याख्यानश्रुति-रणरणकान्मिलितलोकसंघट्टैः । पुंभिरपि स्वेदकणै-मुक्ताकञ्चुकधरैर्जातम् ॥४२॥ तत् सर्वपर्वगर्व-प्रदमाब्दिकपर्व सततनिर्विघ्नम् । अजनिष्ट तातपाद-ध्येयध्यानानुभावेन ॥४३।।
किञ्च
येषां वचनामृतरस-गततापभरैर्जनवजैः सम्यक् । अच्छिन्नचन्दनद्रु-मलयगिरिमण्डलं ब्रूते ॥४४॥ किमदोवदनस्पर्द्धा, निर्मातीत्युपहसद्भिरिन्दुरयम् । लोकैविलोक्यतेऽलं, दृष्ट्वाऽपि मुखं मुदा येषाम् ॥४५।। येषां स्थैर्यश्रवणाद्, भूभारोद्वहनजातखेदमनाः । भोगीशः साहाय्यं, समीहते धीरचरितानाम् ॥४६।। येषां यशःकदम्बक-निर्मलतामर्कसोदरः सम्यक् । लब्धुमिव देवनद्यां, स्नाति सदा धवलदेहोऽपि ॥४७|| येषां गुणगणभारै-राक्रान्ताशेषवपुरिव महद्भिः । भोगीशः स्वशरीरं, चालयितुमनीश्वरः सम्यक् ॥४८॥ येषां कीर्ति कुलटा-मिव सततं स्वैरमखिललोकानाम् । कण्ठाश्लेषं सृजती-मपि जगति सतीं वदन्ति बुधाः ॥४९।। येषां रूपातिशयं, लक्षीकृत्याऽद्रिजाप्रमोदकृते । दिग्वासाः किमु कञ्चि-न्मन्त्रं साधयति शम्भुरसौ ॥५०॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org