SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ ४७ येषामल्पितकल्प-द्रुम _ _ [कल्प]वागगोचरो महिमा । विबुधपदं नृणामपि, करस्य भूमौ ददानस्य ॥५१॥ कुब्जीकृतसुरगिरिभिः, स्वकीयगुणराशिना प्रसाद्या तैः । प्रीतिप्रसादपत्री, कृशेतरां मयि कृपां कृत्वा ॥५२॥ तैरुपवैणवमनुपम-भाग्यसमुद्रैः सदा कृपावद्भिः । श्रीतातैरवधार्या, प्रणतिश्च विनेयपरमाणोः ॥५३।। किञ्चशिवसृष्टिं ध्यायन्तो, जगति जयन्तीह ये यथायोगाः । उपदिष्टदुःखसमुदय-मार्गनिरोधा यथा बौद्धाः ॥५४॥ तेषां निकटस्थानां, निजवचनातिशयरञ्जितनृपाणाम् । श्रीनन्दिविजयवाचक-वृषभाणां वादिकुम्भिशरभाणाम् ॥५५॥ गीतिः । निजमतितुलितबृहस्पति-बुद्धीनां लाभविजयबुधानाम् । वैराग्यरङ्गरङ्ग-च्चित्तानां प्राज्ञरङ्गविजयानाम् ॥५६॥ गीतिः । शान्तिविजयविबुधानां, विद्वद्वररामविजयगणिराजाम् । तर्कवितर्कवशंवद-चित्तानां रामविजयबुधराजाम् ॥५७॥ गीतिः । गणिपद्मविजयनाम्नां, गणिसिन्धुरकीर्तिविजयानाम् । गणिधीरविजयनाम्नां, गणिबन्धुरकमलविजयानाम् ॥५८॥ उपगीतिः ॥ अन्येषां च यतीनां, प्रसादनीये प्रसादमाधाय । नत्यनुनती यथार्ह, श्रीमत्तातैः कृपावद्भिः ॥५९।। शिशुसंनिधिसंस्थानाः, कुंअरसौभाग्यगणिमुख्याः । वीराञ्चितसौभाग्या-स्तथा च कल्याणसौभाग्याः ॥६०॥ उपगीतिः ॥ प्रणमन्ति भक्तिनम्राः, श्रीमत्तातक्रमाम्बुजद्वन्द्वम् । उपवैणवमामोद-प्रकर्षसम्पादनप्रकटम् ॥६१॥ अत्रत्यः सकलोऽपि, प्रणमति सङ्घस्त्रिसायमुरुभक्तिः । श्रीतातपादपाद-द्वितयमतुल्यप्रभाभोगम् ॥६२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy