________________
जून - २०१३
याऽष्टाशीतिसहस्री-युतलक्षद्वयमितोरुपदभृदपि । चलनवियुक्ता तस्यां, भगवत्यां वाच्यमानायाम् ॥३०॥ शास्त्राध्ययनाध्यापन-योगोद्वहनादि सत्क्रियाकाण्डम् । लक्षीकृतापवर्गे, यतिवर्गे कुर्वति प्रौढम् ॥३१।। साधर्मिकप्रकरसत्कृतियुक्तपोषै
मालाधिरोपणमहःप्रथितोपधानैः । तुर्यव्रतोच्चरणनन्दिमहोत्सवौघैः,
सम्यक्त्वसुन्दरगृहिव्रतपौषधैश्च ॥३२॥ _ _ _ _ गतिपथं सुकृतैककृत्ये,
सद्भावरङ्गिहृदयैरिह नीयमाने । यद् विघ्नमण्डलमुपैति नितान्तमस्तं,
तत् तातपादचरणस्मरणप्रभावः ॥३३।। किञ्चसाकं चातककूजितेन सकलं व्याप्नोति गर्जिर्जगत्,
सार्द्ध भोगिमनोरथैः प्रतिदिनं वृद्धि प्रयान्त्यम्बुदाः । शुष्यन्ति प्रसभं जवासकगणा: सत्रा वियुक्तैर्जनै
____स्तापाः शान्तिमयन्ति यत्र च समं कान्ताभिमानग्रहैः ॥३४॥ तत्र प्रावृषि शान्तचातकतृषि प्रच्छादितार्कत्विषि,
प्रौढश्रि प्रतिवत्सरं भवति यत् प्राप्तोदयं पर्वसु । धर्मक्षोणिभुजङ्गकौतुककलारम्भागृहं सर्वदा,
दत्ताशीरभयोपलब्धिपटुभिस्तिर्यग्भिरप्युन्मुखैः ॥३५॥ यस्मिन् धर्मनरेश्वर-साम्राज्ये विघ्नसिन्धुरविपक्षः । कल्पोऽनल्पप्रभया, गन्धद्विरदायते शश्वत् ॥३६।। यस्य च सर्वसुखद्विप-वशीकृतावेकहस्तिपकसदृशः । मासक्षपणादितपो-ऽङ्कुशायते शश्वदतितीव्रम् ॥३७।। यस्मिन् निर्वृतिदायिनि, तिर्यञ्चः पक्षिणश्च मोदन्ते । नृपशिक्षया प्रवादित-जीवदयापटहघोषेण ॥३८॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org