SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ४४ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ यत्रोच्चैः शिखराग्रसंस्थितवटः सस्यस्फुटाम्रश्रिया कीर्णो वृत्ततरः सनिर्झरजलो धारागिरिर्भासते । पत्युः सङ्गवशात् प्रसूतसुयशःसूनोः क्षरत्क्षीरभृत्, पाण्डुः श्याममुखोऽपरः स्तन इवाऽपाचीमहीसुध्रुवः ॥२०॥ तस्माद् देवगिरेः समस्तजगतीसीमन्तिनीभालतो, लोलभ्रूनयनोपमाविरहितश्रीप्राप्तशोभाभरात् । तर्जन्या स्फुटकीर्तिभासुरपुरवातं स्वकीयैर्गुणै नित्यं तर्जयतः पुरात् प्रतिदिनं प्रासाददण्डोपधेः ॥२१॥ उत्सुकमनोऽभिरामो, विनयावनताङ्गशालिधौरेयः । करकुड्मलोपलक्षित-ललाटपट्टाभिरामश्रीः ॥२२॥ भूरेणुतिलकितालिक-भासुरकान्तिः प्रमोदमेदुरितः । भक्तिप्रकर्षसम्भव-पुलकाञ्चितसकलतनुयष्टिः ॥२३।। व्यणुकसमवायिकारण-सदृशः शिष्येषु सत्यसौभाग्यः । सोल्लासं सोत्कण्ठं, सप्रणयं सानुनयमेवम् ॥२४॥ द्विगुणितवैशेषित(क)मत-भावपदार्थप्रमैर्मुदाऽऽवतैः । प्रणिपत्य सृजति विधिवद्, विज्ञप्तिं प्रश्रयोपेताम् ॥२५।। प्रातः प्रभाकरेऽथो, हरिद्वधूनां स्वयं मुदा रक्ते । मण्डयतीव मुखानि, स्वस्य करैः कुङ्कुमाभोगैः ॥२६।। भुक्तवति स्वकरमणे, निश्यपरां पद्मिनी रुषा रक्ता । भृङ्गीषु यू(दू?)तीष्विव, निनदन्तीष्वनुनयन्तीषु ॥२७॥ अन्तर्धमदलिशब्दैः, पूत्कुर्वन्तीषु कुमुदिनीकान्तम् । निर्जित्य कुमुदिनीषु, व्रधेन विडम्ब्यमानासु ॥२८॥ स्त्रीविश्वासात् किं किं, कष्टं न स्याद् बलोद्धतेऽपीति । पादै रविणा ध्वान्ते, प्रहण्यमाने त्रियामायाः ॥२९॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy