SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ३८ यत्राद्भुत श्रीजिनराजसद्म- पद्माकरेऽर्हत्प्रतिमाम्बुजाढ्ये । अमेयसद्ध्यानरसं निपीय, वितृष्णभावं भविनो भजन्ति ||८|| तस्मिन् सिद्धपुरे प्रसिद्धनगरे श्रीवन्द्यपादाम्बुरुड्धूलीपूतमहीतलेऽतिविपुल श्रीजैनदेवालये । श्राद्धश्रेणिविधीयमानविविधप्रोद्दामपुण्यक्रियाविभूतिवैभवभरात्यर्थाभिभूतप्रभे ||९|| कू येषां ज्ञानं सत्क्रियाभिः प्रधानं येषां ध्यानं सर्वसम्पन्निदानम् । येषां यानं हंसयानोपमानं येषां दानं विश्वदानासमानम् ॥१०॥ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ " • हृदयं करुणारसाकुलं, वचनं चन्दनबिन्दुशीतलम् । वरसंयमसम्पदः पदं, वपुरप्यस्ति यदीयमन्वहम् ||११|| यद्देशनाविष्णुपदी नदीव-द्भव्य श्रवः स्रोतसि सञ्चरन्ती । अनन्तपापच्छिदुरा दुरापास्तपाप्मभिर्जन्तुभिरेकशोऽपि ॥१२॥ कीर्त्तिर्यदीया शरदभ्रशुभ्रा, बम्भ्रम्यमाणा जगतीतलेऽस्मिन् । सतश्चकोरान् हिमरुप्रभेव, प्रीणाति दुष्कीर्त्तिनिदाघतप्तान् ॥१३॥ Jain Educationa International येषां जिह्वा रङ्गभूमौ नटीव - नृत्यन्ती श्रीशारदासुन्दराङ्गी । तास्ताः काश्चिद्रूपभङ्गीर्विधत्ते, रङ्गाद्विज्ञैर्याः शिरो धूनयन्ति ||१४|| यद्विज्ञभावं ननु कश्चनापि, स्तोतुं प्रभुर्नैव कवीश्वरोऽपि । किं मेरुभूभृद्गरिमाणमुच्चैर्धर्तुं क्षमः कोऽपि महाचलोऽपि ॥ १५ ॥ कलिन्दिका येषु यथाऽकलङ्का - लीलां विधत्ते न तथा परेषु । यथा मराली किल मानसान्ता, रंरम्यते नैव तथा पत्र ||१६|| यथा यथा ये विहरन्ति भूमौ तथा तथा मोहभरोऽस्तमेति । यथा यथाऽभ्रे समुदेति भानु - स्तथा तथा वा तिमिरं प्रयाति ||१७|| धर्मं धरन्तोऽपि गुणाभिरामं, क्षमाभरं बाभजतोऽपि सर्वम् । नयान् समस्ताननुसस्रुतोऽपि चित्रं परं ये यतिनां धुरीणाः ॥ १८ ॥ आस्तां समस्ता अपरे गुणौघा, जेगीय्यमाना विबुधैरशेषैः । एकं निरीहत्वमपीह येषां, पूर्वर्षितां भूवलये व्यनक्ति ॥१९॥ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy