SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ प्रचुरविनयवृत्तिप्रीणितानेकदक्षं, प्रवरमतिविवेकभ्राजमानैर्यतीन्द्रैः । हिमकरकिरणालीशुभ्रचातुर्यमुख्या द्भुतगुणगणसम्पत्संयतीभिश्च सेव्यान् ॥२८॥ ३६ सुवर्णकुम्भामलसारकेषु, यस्मिन् विहारेष्वतिसौम्यमूर्तीन् । दृष्ट्वाऽर्हतां वावचतीति मिथ्या दृशोऽपि देवा अनुवीतरागम् ॥२९॥ प्रवरदानदयानयपद्धति-प्रवरणप्रवणाधिपपालितात् । - सुविहिताश्रितलोकसमाकुलात्, कपिलपाटकनामपुरात्ततः ॥|३०|| विधेयाश्रवशिष्याणुः, शान्तिसुन्दरसंज्ञितः । साधुसाधुगुणाधारः, साधुत्रयसमन्वितः ||३१|| ज्यायसा वन्दनेनोच्चैरभिवन्द्य यथाविधि । शिरस्यञ्जलिमाधाय, मुदा विज्ञपयत्यदः ||३२|| शुद्धाचारविनेयवारविलसद्वात्सल्यनीरोच्छलत् कल्लोले गुरुमानसेऽतिविपुले क्रीडां समातन्वतः । यानालोक्य विलासलालसमनाश्चारित्रलक्ष्मीर्गुणैः स्वैः शुद्धोभयपक्षिणो द्रढयति क्रीडामरालानिव ॥ ३३॥ संवेगवैराग्यविवेकवैयावृत्त्यर्जुतासाम्यनिरीहताद्याः । येषां गुणा दृष्टिपथं प्रयाता, ऋषीन् पुराणान् स्मृतिमानयन्ति ||३४|| कलिन्दिका येषु यथाऽकलङ्का लीलां विधत्ते न तथा परेषु । यथाऽलिमाला कमले विलासं कुर्यात् तथा नो हयमारकेषु ||३५|| यद् वाड्मयाम्भोनिधिमध्यभागे, हेतूपपत्तिप्रचुरोर्मिमाले । स्फुरत्प्रयोगाब्ध्रमभिन्नकाष्ठा, दुर्वादिनो हा ! सहसा ब्रुडन्ति ||३६|| येषु क्षमाभृत्सु समुद्गतोऽयं, तपोविवस्वानतिचण्डतेजाः । मिथ्यात्विघूकैरपि हर्षता स्वं दृशा समालोकयतीति चित्रम् ॥३७॥ सुधास्वर्धुनीलोलकल्लोलमाला, सुधाधामधामाधरीकारिवर्णा । गुणाली यदीया मरालीव लीला - विलासं विधत्ते सतां मानसेषु ॥३८॥ यासु यथा विनयगुणः प्रकर्षमायाति नापरत्र तथा । ज्यौत्स्नी यद्वज्ज्योत्स्नां वहति तथान्यापि किं रात्रिः ||३९|| Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy