SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ नाऽस्यांऽशोऽप्यपरेषु सूरिषु लभामभ्येति यद्वा श _ द् भानोर्यद् द्युतिमण्डलं स्फुरति किं खद्योतपोतेऽपि तत् ॥२१॥ श्रीवज्रादनु भूयसो गणभृतोऽनाचन्द्रकालायुषः सेवं सेवमधीश्वरान्नवनवान् मन्येऽतिखिन्ना सती । प्राच्यप्राच्यतमात्मनायकगुणभ्राजोऽतिजैवातृकान् यानासाद्य युगप्रधानपदवी सुस्थाऽभवत् साम्प्रतम् ॥२२।। येषां व्याख्या कर्णमार्गे प्रवेशं, कुर्वाणैवाऽज्ञानमाशु क्षिणोति । यद्वा भानो रश्मय: पूर्वभूभृत्-तुङ्गे संस्थाः किं तमो नोत्क्षिपन्ति ॥२३।। पापीयोभस्मराशिग्रहजिनमतगात्यन्तपीडावनाशाने(विनाशा) __ऽनेहःश्यामाऽन्यपक्षोदितचरणगुणश्वेतकेतुप्रभाभिः । उत्कल्लोलायमाने त्रिभुवनवितते यद्यशःक्षीरसिन्धौ, भिन्नानूचानशब्दा दधति परिपतन्मत्स्यलीलायितानि ॥२४॥ ऐन्द्रहस्तिरजताद्रिपूर्णिमा-चन्द्रसान्द्ररुचिसोदरत्विषम् । स्तोतुमेकमपि यद्गुणं यथा-वस्थितं कविरपि क्षमेत कः ॥२५।। यत्पदद्वयमनन्यमनस्का, आश्रयन्ति किल ये सुविनेयाः । ते चतुर्विधसमाधिमुपेता नाऽऽदधुश्चतुरतादिगुणान् कान् ॥२६॥ येषां पदाम्भोजयुगस्य वनं(?), वनं श्रयन्तो भवमार्गगामिनः । सावद्यकर्मोष्मभरं विहाय के-ऽपूर्वं समाधि तव भूविरे(न बभूविरे?)तराम् ॥२७॥ भाग्यं येषामैहिकामुष्मिकाना-मिष्टार्थानां साधकं स्यात् कथं न । उच्चैर्गोत्राग्रेसरो यत्सहायी-भावं दध्यात् पुण्यकर्मोदयोऽयम् ॥२८॥ येषामुपन्यासरणाङ्गणे स्फुरत्-प्रयोगगर्जद्भटकोटिसङ्कले । हेतूपपत्तीषुभरे प्रसर्पति, त्रासं श्रयेयुः परवादिनो न के ॥२९॥ महीमहेलाहृदयस्थलान्तरं, विहारहारेण विभूष्य येऽनिशम् । _ _ _ समग्रावयवान् विभूषय-न्त्यहो मुनीशोऽपि यशोविभूषणैः ॥३०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy