________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
प्रवर्तिनीस्ता अभय-चूलाह्वा गुणबन्धुराः । अनुवन्दे प्रमोदेन, संयतीरपरा अपि ॥७६।। अर्हदेवाराधनातत्पराणां, दीनानाथोद्धारबद्धादराणाम् । अग्रे भूत्वा कुर्वतां तीर्थयात्रां, श्रेयः श्रीणां श्रीगुरूपास्तिभाजाम् ॥७७।। समस्तसुश्रावकपुङ्गवानां, सुश्राविकाणामपि सद्विधीनाम् । श्रीवन्द्यपादैरभिधानपूर्वं, प्रसादनीयो मम धर्मलाभः ॥७८॥ इहत्या :गुणिनो जयसुन्दरा बुधा, गणिमुख्या अपि साधुवल्लभाः । यतयोऽप्यथ साधुमूर्तयो, गुणिदेवादिसमुद्रसाधवः ॥७९।। हर्षधीरमुनिराजवशाली, हेमसुन्दरमुनिर्मुनिरत्नम् । नंनमत्यनुदिनं प्रभुपादान्, भूरिभक्तिपरिभावितचित्ताः ॥८०॥ श्रावकाः श्राविकाश्चापि, धर्मकर्मपरायणाः । श्रीपूज्यपादपद्मेषु, भजन्ते भृङ्गतां भृशम् ॥८१॥ आश्वयुजासितपक्षे, पञ्चम्या वासरे च शशिवारे । शिष्याणुना मयेयं, लिखिता विज्ञप्तिरिति भद्रम् ॥८२॥
-x
(४)
श्रीगुणरत्नसूरिं प्रति प्रेषितस्य पत्रस्यांऽशः अनन्तज्ञानदृक्सौख्य-वीर्यसंवलितात्मने । आनन्दाद्वैतदानैक-निपुणायाऽर्हते नमः ॥१॥ श्रियः कान्ते वैरिव्रजविजयशङ्कामुपगते,
निरुध्यारील्लक्षं सपदि जयलक्ष्मी परिणयन् । यदूनामानन्दं दददभिमतं रातु भवतां,
शिवासूनुः स्वामी त्रिभुवनशिवाधाननिपुणः ॥२॥ शाखाः किं सुरशाखिनामुपगताः पञ्चात्मतां सन्धिता,
एता विश्वसुरद्रुमं प्रभुममुं पञ्चाक्षतां याचितुम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org