SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जून २०१३ - यदनुदिनमुदारैरर्थ्यमानाऽपि पुम्भि:, श्रयति पतितया यान् संयमश्रीरवश्यम् ॥२०॥ सकलभविकजन्तुस्फारहृत्पात्रसंस्थं, सततमपहरन्ती स्नेहपूरं समन्तात् । भुवनभवनवृत्तीन् जीवमुख्यान् पदार्थान्, प्रकटयति यदीया देशना दीपिकेव ॥२१॥ भवारण्ये पुण्येतरकथनपरानेकजनता वचोभ्रान्तान् भव्यान् जननमरणाघातचकितान् । क्षणात् स्वस्थान् कृत्वा वचनरचनैः शुद्धकरुणा परीता ये गृहणन्त्युरुशिवपुरं सार्थपतिवत् ॥ २२॥ तान् सूरिचक्रवरिवस्यपदाननेकै -स्तैस्तैर्गुणैरनुकृताद्ययुगप्रधानान् । ध्येयार्चनीयमहनीयसुनामधेयान्, श्रीदेवसुन्दरगुरून् गुरुभागधेयान् ॥२३॥ श्रीवन्द्यपादपदपङ्कजभक्तिसम्यग् व्यापारपावितमनोवचनाङ्गयोगैः साध्वादिभिश्च विनयात् परिशील्यमानान् ॥२४॥ श्रीसाधुरत्नगणिवाचकसार्वभौमैः वीतरागपदपङ्कजपूजा-सद्गुरुप्रणतिपावितकाया: । यत्र वावसति धार्मिकलोका, धर्मकर्मनिरता धनवन्तः ॥२५॥ मा गा रे चरटाग्रणीः क्षणमितः पश्चात् त्वमालोकय प्राप्तः श्रीजिनराजदुर्धरभटो दत्तस्त्वदुन्मूलकः । यत्र श्रीजिनमन्दिरे प्रतिदिनं भेरीद्वयं दध्वनत् प्रातः सायमपीति भैरवरवैः क्षोभं विधत्ते कलेः ||२६|| कीर्त्तिपूरगुरुसौरभमल्ल्या, दुःषमोर्जितहतौ शितभल्ल्याः । अर्थिकामितविधौ सुखवल्ल्या स्तत्पुरो विजयभृज्झरिपल्ल्याः ||२७|| पादपद्मयुगले रविसङ्ख्या वर्त्तनवन्दनविधिं कृतपूर्वी । मूर्त्तिमद्विनयपङ्कजराज-त्कुड्मलाकृतिकराचितशीर्षः ॥२८॥ शान्तिसुन्दरगणिर्बुधराजी - मौलिरत्नजयसुन्दरमुख्यैः । षड्भिराप्तयतिभिः परियुक्तः, कार्यविज्ञपनमातनुतेऽथ ॥ २९ ॥ Jain Educationa International २३ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy