________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
ऐरावतं ये यशसां समूहै-विडम्बय(न्त्य)निशं विशुद्धैः(?) । शश्वन्महादानभरेण मित्री-कुर्वन्त्यनेकान्तमतं प्रपन्नाः ॥१४२॥ प्रभावनाभिर्विविधाभिरुच्चकैः, प्रभावयन्तो जिनशासनं सदा । मनस्सु बोधिं दधते कुतीथिना-मप्यङ्करान् मेघ इवाऽम्बुनावनौ ॥१४३।। तेषां श्राद्धावतंसानां, श्राविकाणामपि स्फुटम् । नामग्राहं प्रसाद्यो मे, धर्मलाभो गुरूत्तमैः ॥१४४।। कीर्त्यादिसुन्दरगणि-हर्षरत्नमुनिस्तथा । हर्षतो धीरगणयो-ऽत्रत्या वाचंयमर्षभाः ॥१४५।। साध्व्योऽपि साधुसुन्दरि-गणिः शान्तिनिधिणिः । शिवादिमालागणिनी, क्षुल्लिका शिवचूलिका ॥१४६।। करणासाधुप्रमुखाः, श्रावकाः श्राविकास्तथा । श्रीप्रभून् भक्तितो नित्यं, वन्दन्त इति मङ्गलम् ॥१४७।। गुरुपादमहाभक्ति-तरङ्गसुभगीकृतः ।। भाद्रशुक्लत्रयोदश्यां, शिष्यलेशो व्यजिज्ञपत् ॥१४८।। विशेषतः [ _
__] नंनमत्यनुदिनं गुरुयुग्मं, साधुसुन्दरिगणिन्य उदाराः ॥१४९।। महीमहीयो जनदत्तमानान्, यशोभरैर्भत्सितराजमानान् । प्रभून् द्वयानग्रिमभक्तियुक्तः, प्रणौति पेथाभिधसङ्घनाथः ॥१५०॥ जिनदत्तोदयराजौ, रत्लाई शाणिका च कर्माई । इति नाम्नां मज्ज्यायः-साध्वीनां धर्मलाभोऽस्तु ॥१५१॥
(३) सिद्धपुरस्थ-श्रीदेवसुन्दरसूरि प्रति प्रेषितं विज्ञप्तिपत्रम् प्रप्यानध्यानसन्धान-सम्भवं भवभेदकम् । तज्ज्योतिर्योगिभिर्येय-मार्हतं जयति स्फुटम् ॥१॥ श्रेयो वो विदधातु भद्रकलशः श्रीनाभिराजाङ्गजो
भव्यानां शिवपू:प्रयाणकविधावभ्युद्यतानां सदा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org