________________
जून - २०१३ चञ्चद्गुणग्रामसमुत्थकीर्ति-कल्लोलिनीक्षालितदिङ्मलानाम् । शान्तिप्रियाह्वर्षिधुरन्धराणां, सतां प्रभूपासनपुण्यभाजाम् ॥१३०॥ अत्युग्राभिग्रहैर्लोभं, निर्भर्त्सतवतो भृशम् । शान्तिचन्द्रगणेौन-गुणचङ्गीकृतात्मनः ॥१३१॥ विनयादिगुणश्वेत-पक्षतः कीर्त्तिकौमुदीम् । बिभ्रतो जिनकीर्त्याह्व-मुनिचन्द्रस्य सन्मतेः ॥१३१॥ शमदमसंयमजैना-गमवाचनपाठनाम्बुयोगेन । क्षालितपापमलानां, साधूनां हर्षराजानाम् ॥१३३।। दुष्करोग्रतपउद्धतवह्नि-प्लुष्टकर्मगहनप्रसराणाम् । अप्रमत्तयतिमौलिमणीनां, वीरपूर्वकसमुद्रगणीनाम् ॥१३४॥ वर्यचातुर्यविनय-क्रियाऽशोकवनान्तरे । खेलतो राजवन्नित्यं, विजयाद्राजसन्मुनेः ॥१३५।। सुधासुन्दरसत्साधो-धर्मधीरमतिस्पृशः । लक्षणादिषु शास्त्रेषु, कुशलत्वमभीप्सतः ॥१३६।। रङ्गद्गुणमणिश्रेणि-रोहरोहणभूभृतः । हेमसुन्दरक्षुल्लस्य, यशोव्याप्ताखिलावनेः ॥१३७|| हेमसेनमुनेर्वर्य-तपःसंयमशालिनः । हर्षप्रभमुनेर्मान-मुक्तस्य सरलात्मनः ॥१३८॥ बुद्धिबेडाप्रयोगेण, तरत: शास्त्रवारिधिम् । उदयात् कलशस्यापि, मुनेरुद्यद्गुणावलेः ॥१३९॥ वर्यात्युग्रतपोदयादमशमानीहाक्षमासम्पदं,
साहित्यागमलक्षणादिकमहाशास्त्रेषु लीनात्मनाम् । प्रोत्सर्पद्विनयोपकारकरणाधारीभवद्वह्मणां,
चूलानां परिवर्त्तिनीपदजुषां कल्याणतोऽस्तांहसाम् ॥१४०॥ परासामपि साध्वीनां, संयमाराधनाकृताम् । प्रभुपादैः प्रसाद्या मे, सस्नेहं चाऽनुवन्दना ॥१४१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org