SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ अर्थान् काश्चन वाञ्छिताञ्छितमदाः सम्बोधयन्त्यः स्फुटं, श्राद्धाः का अपि पौषधादिकविधीनाशासयन्त्योऽनिशम् ॥९२।। क्षुल्ला लक्षणभाणनादिकविधौ बद्धादरा उत्तरा ध्यायोद्योतनतत्पराः परिहताशेषप्रमादादयाः । वैदर्भीतपओलिकाद्वयकृतोऽत्यन्तं विनीत्याश्रिताः, साध्व्योऽकुर्वत साधुसुन्दरिगणिन्याह्वा गुणिन्योऽष्टमम् ॥९३।। युग्मम् ॥ दमयन्तीतपःश्रेणि-त्रयं निर्माय सत्त्वतः । समासेवितसंसार-तारणप्रवरव्रताः ॥९४।। चतुःशरणपाठिन्यो, वैयावृत्त्यविधौ रताः । शान्तिनिध्यभिधाः साध्व्यः, साधयामासुरष्टमम् ॥९५|| युग्मम् ॥ महानिशीथागमयोगयुक्ता, शिवादिमालागणिनी गुणिज्ञा । धर्मार्थकामाध्ययनं पठन्ती, पञ्चोपवासांस्तनुते स्म भुक्तेः ॥९६।। समासोक्तिसदभ्यस्तं, कुर्वती शिवचलिका । तार्तीयीकं भणन्त्युच्चैः, पादं क्षपणमादधात् ॥९७|| देवपालश्च तोलाकः, कल्पमातनुतांतराम् । गुणराजस्तथा झाडूः, षष्ठं स्पष्टं वितेनतुः ॥९८।। करणासाध्वाल्हणसीप्रमुखाः, स्थानानि केऽपि कुर्वन्ति । आसन्नपञ्चविंशा, यथार्हसूत्रादि पापठति ॥९९।। एतावत्प्रमुखा नित्यं, प्रतिक्रान्ति वितन्वते । द्विविंशानुमिताः श्राद्धाः, पौषधं पर्वणि व्यधुः ॥१००|| श्रीसङ्घवार्द्धाविह भूरिपुण्य-क्रियानदीभिः परिपूर्यमाणे । सङ्घाधिराजव्यवसायिपेथा-दयो वसूनां पदवीं श्रयन्ति ॥१०१।। अक्षूणभाववैपक्ष-पक्षक्षेपणहेतवे । पक्षक्षपणमस्राक्षी-न्मटकूः कूटनोज्झिता ॥१०२॥ सत्त्वाधिकौपवस्त्राणि(स्तानि), दश जासूरसूत्रयत् । अष्टाह्निकां व्यधुः पञ्च, गोरि-पद्मायिकादयः ॥१०३॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy