SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ तथाहि - सप्तक्षेत्र्यां केचनोपुः स्ववित्तं, केचिच्छीलं शीलयामासिवांसः । भ्रश्यत्तापास्तेपिरेऽन्ये तपांसि, प्राज्यामेकेऽबीभवन् भावनां च ॥८२॥ एके भव्या भूरिभावाभिरामा, ज्यायःपूजामादधुर्बोधिदानाम् । अन्ये तेषां शासनं शंसनीया-चाराः सारं प्रौढिमानं च निन्युः ॥८३।। केचिद्दीनादीननादीनवाशा, नानादानैरुद्धरन्ति स्म धन्याः । कारुण्यार्णोऽन्त्यार्णवा: पूर्णभावा, एकेऽमारिं घोषयामासुरुच्चैः ॥८४॥ अपि चअनन्यसामान्यवदान्यताभि-रलकृताः केचन मार्गणेभ्यः । वस्त्रादिदानानि दरिद्रता[या], विभेदनेऽस्त्राणि दधुर्विधिज्ञाः ॥८५।। माद्यन्मृदङ्गादिनिनादसारै-र्नाट्यैर्बुधानन्दकरैरनेकैः । हर्षप्रकर्षोल्लसितास्तु केचित्, प्रभावनामाविरभावयंश्च ॥८६।। विशिष्य योगानुष्ठान-कारणादौ परायणाः । कीर्त्तिसुन्दरनामानो, यतयो यतनारताः ॥८७|| चतुर्थाचाम्लषष्ठादि-तपांसि प्रायशः श्रिताः । संसारतारणं कृत्वा, त्रिभुक्त्या कल्पमादधुः ॥८८॥ यामलम् ।। वहन् भगवतीयोगान्, शुद्धानुष्ठानसादरः । हर्षरत्नमुनिर्मोदा-दौपवस्तमसूत्रयत् ॥८९॥ सप्ताष्टमाङ्गकल्प-व्यवहारनिशीथयोगविधिनिष्णाः । हर्षाद्धीरा गणयो, वितेनिरे स्पष्टमिह षष्ठम् ॥९०।। वैयावृत्त्यविधानबद्धमनसः शश्वद्विधेयाश्रवाः, श्राद्धाध्यापनलेखनोद्यमकृतो निर्धूतरोषद्विषः । पद्मानन्द इति प्रसिद्धविदिते काव्ये भणन्त्यष्टमं, सर्ग स्वर्गसुखाभिलाषविरता एते त्रयः साधवः ॥९१।। काश्चित् सूत्रपरम्परामुपपदाद्देशाच्च मालादिकान्, ग्रन्थांश्चाऽप्यपरा मृदूत्तरगिरा पापाठयन्त्योऽशठाः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy