________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
तेषां चित्रकृदत्युच्च-चारित्ररुचिरात्मनाम् । क्षेमवल्लभसाधूनां, बन्धूनां जगतामपि ॥८८।। सनयविनयमुच्चैः स्नेहवच्चित्तवृत्ति, निरुपममुपकारं दक्षतामक्षताङ्गीम् । चतुरतुरगवल्गां चातुरीमौचितीं वा, न मुदमुपगताः के स्युर्विभाव्यैव येषाम् ॥८९॥ तेषां गणीनां जिनवर्द्धनानां, गर्जद्यशोभिः परिवर्द्धनानाम् । वैज्ञानिकश्रेणिशिरोमणीनां, विद्वन्मनोम्भोजदिवामणीनाम् ॥९०॥ तपस्यतामतितमां, कर्ममर्मभिदाकृते । वीरात् समुद्रसाधूना-मन्धूनां प्रशमाम्बुनः ॥९१।। प्रोद्यबुद्धिप्रभाभारा-ऽऽविर्भावनवभास्वतः । साधोविजयराजस्य, प्रशस्यगुणराजिनः ॥१२॥ प्राज्यप्रज्ञासुधां मध्ये, बिभ्रतो बहिरप्यथ । कीर्तिपुष्पपरीतस्यो-दयकुम्भस्य सन्मुनेः ॥९३।। शीतगोरिव सर्वाङ्गि-चकोराप्यायकद्युतेः । प्रातिभभ्राजमानस्यो-दयरत्नमुनीशितुः ।।९४।। प्रविलसच्छुचिकीर्तिसमुच्छ्रिते-रुदयशेखरक्षुल्लशिरोमणेः । उदयसुन्दरनाममुनेः स्फुर-द्विनयरञ्जितसज्जनचेतसः ॥१५॥ श्रीवन्द्यसेवनप्रादु-र्भवदद्भुतगुणावलेः । राजसुन्दरसाधोश्च, यतेः संयमतो रुचेः ॥९६।। गुणा यदीयाः स्मरणं प्रयाता, अपि प्रमोदं सुधियां सृजन्ति । यथा जगत्यां प्रसृताः सुधांशु-करोत्करा जात्यचकोरकाणाम् ॥९७॥ मनः शुभध्यानविधानशुद्धं, वचः श्रुताधीतिविधूतपापम् । कायोऽप्युपाय: शिवशर्मसिद्धौ, योगा यदीया सफला इति स्युः ॥९८।। तासां सुधापेशलदेशनाभिः, सुश्राविकाबोधनतत्पराणाम् । प्रवर्त्तनीमस्तकमण्डनानां, कल्याणचूलाह्वयविश्रुतानाम् ॥९९॥ विशदगुणमणीभिर्भूषितानां परासा-मपि वरयतिनीनां सोमचूलादिकानाम् । मम धृतबहुमानं सादरं सप्रमोदं, सततमनुनतिः श्रीवन्द्यपादैः प्रसाद्या ॥१००॥ ये श्रीजिनाज्ञामुकुटं स्वमूर्जा, वहन्तः उच्चैः सुभगत्वमापुः । गाढानुरागादभिसंश्रयन्त्यः, श्रियोऽमुमर्थं द्रढयन्ति यस्मात् ॥१०१।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org