SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ मर्यादया संवरपूरवृद्ध्या, विभाव्य यानत्र विधिः समुद्रान् । महाय॑मन्त्रादिकलब्धिरत्न-रपूजयत् पूज्यविधौ विधिज्ञः ॥२१॥ अनेकदेशान् विधिना विहृत्य, विज्ञाय तद्वाक्-सुकृतार्थितादि । सुखेन भव्यानवबोधयन्ति, य आगमार्थं विविधैर्वचोभिः ॥२२॥ येषु श्रुतार्थोपनिषत् प्रकाशते, जगज्जनालादितया च वर्त्तते । आदेयकर्मोदय एव मानुषो-त्तराद् बहिर्ज्योतिरिवाऽर्यमेन्दुभिः ॥२३।। सूक्ष्माऽपि येषामपि तैक्ष्ण्ययोगान्-मतिर्विकुण्ठा विषमेऽपि नार्थे । आस्फोटनी वज्रमुखी कदाचित्, पाषाणभित्तावपि विस्खलेत् किम् ॥२४॥ ये धर्मदाात् प्रियधर्मभावा-दनुग्रहीतुं गणमस्तदोषम् । साधूत्तमान् संयमसाधनानां, विज्ञानमुच्चैरनुशासयन्ति ॥२५॥ प्रयोगयोगैः सुभगानि सारा-लङ्कारवारैः समलङ्कृतानि । विचित्रचित्रैरतिचित्रदानि, काव्यानि येषां सरसानि च स्युः ॥२६।। येषामुपन्यासरणाङ्गणे स्फुर-द्धेतूपपत्तिप्रगुणैर्वचःशरैः । प्रक्षोभिता वादिगणाः पुरःस्थितं, कर्तुं क्षमन्ते न मुहूर्तमप्यहो ॥२७॥ सूत्रार्थतो ये गणितानुयोगं, स्वकण्ठपीठे दधतोऽपि सर्वम् । गभीरचित्ता न यथा तथाऽऽवि-ष्कुर्युर्यथा सन् स्वकृतोपकारम् ॥२८॥ सूत्रार्थयोः संस्मरणे विनेय-वारार्थदाने सुकृतोपदेशे । ऊर्जस्विनो ये न कदापि खेदं, वहन्ति यद्वद् वणिजः क्रयादौ ॥२९|| अनन्यजन्माचरणीयमुच्चैः, परोपकारं जगतोऽपि कर्तुम् । येऽभग्नवृत्त्येत्युपदेशयन्ति, क्रियैव सारं सह संविदेह ॥३०॥ सूत्रार्थमाप्तं न विगालयन्ति ये, कथञ्चनाऽत्युत्तमधारणाबलात् । किं स्फाटिको दर्पण आत्मसङ्गतं, जहाति तेजःप्रचयं युगैरपि ॥३१॥ निशीथकल्पव्यवहारजीत-कल्पाद्यवेक्षा बहुदृष्टमुख्याः । स्खलन्ति येऽतिक्रमव्युत्क्रमादे-रालोचनाया न तपःप्रदाने ॥३२॥ प्रमाणशास्त्रेष्वखिलेष्वधीतिनो, बुद्धास्तदर्थे निपुणा नयेषु ये । प्रतिष्ठितं सर्वनयैर्जिनोदितं, क्रियाकलापं कलयन्त्यविश्रमम् ॥३३।। वाक्यैर्हितैः पथ्यतमैश्च येषां, प्रियंवदानां सुहिता विनेयाः । जन्मान्तरेऽप्यन्यगुरोरुपास्यं, वाञ्छन्ति कर्तुं न च वोढुमाज्ञाम् ॥३४॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy