SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क यस्मिन् मौक्तिकपङ्क्तिभिः प्रतिपदं चञ्चत्सुर्वणोच्चयैरङ्गत्तुङ्गतुरङ्गमैर्गजघटालीलाविहारैस्तथा । भास्वद्भूषणमण्डलैः शुचितमैर्वस्त्रैः सुशस्त्रैरपि, क्रीडाम्भोज इवोत्तमे सललितं लक्ष्मीविलासं श्रयेत् ॥९॥ तत्राऽनेकमहर्द्धिकोन्नततमावासोत्थितप्रस्फुर त्तेज:ज्योतिरुदग्रडम्बरसदा सञ्जातराकोदये । Jain Educationa International खण्ड २ श्रीपूज्योत्तमपादपङ्कजपतज्ज्यायोरजोऽभ्यागमद् भूयोभद्रपरम्परापरिगते श्रीस्तम्भतीर्थे पुरे ॥१०॥ जयन्ति [ते] श्रीगुरवो गुरुगुरु (?) - स्फुरद्गुणश्रेणिविलासभूमयः । बुधेश्वरा यान् विविधैः स्तुतिक्रमैः, स्तुत्वा लभन्ते विशदार्थसम्पदः ॥११॥ अनाद्यनन्तं बहुदुःखदायकं, विभाव्य ये कर्मविपाकमङ्गिनाम् । अनारतं वेविजतो जगद्गतं, वस्त्वस्थिरं वीक्ष्य शमं बभूविरे ॥१२॥ धर्मादिनिन्दां विदधत्स्वपि स्फुरन् - माध्यस्थ्यमास्थाय समाधिमागताः । बन्धौ सुभक्तेऽन्यतमेऽपि संयते, दृष्टिं समामेव निवेशयन्ति ये ॥१३॥ छेदश्रुतार्थोपनिषन्निषण्ण- मतित्वतो ये व्यवहारविज्ञाः । व्यलीकदृष्टावपि न प्रचण्ड - कोपा भवेयुर्यतिप्रह्वशान्ताः ॥१४॥ ज्ञानत्रयाचारजिनागमादि- पूज्येषु नित्यं विनयं वहन्तः । प्राप्तप्रकर्षेऽपि महाप्रभुत्वे, नाऽहंकृतिं बिभ्रति ये कदाचित् ॥१५॥ मनोवचोवृत्त्यनुसारधारी, येषामनुष्ठानविधिः समग्रः । किमूर्मयो मध्यगता विलग्ना ( ? ) - स्तटस्थिता वा जलधेर्विभिन्नाः ॥ १६ ॥ योगेषु भोगेष्वपि वस्त्रपात्र - परिग्रहोपाश्रयशिष्यसङ्घे । सन्तुष्टचित्ता विहरन्त ऊर्व्यां, भव्याननेकाननुगृह्णते ये ||१७|| सूत्रोदितोत्सर्गविधि समस्त - क्रियाकलापेषु नियोजयन्तः । गीतार्थधुर्या अपवादमप्याश्रयन्ति ये कार्यवशात् कदाचित् ॥१८॥ धर्मार्थिभिर्धीनिधिभिः सुसेव्यान्, विधाय ये योगविधीनशेषान् । प्राप्ता अनुज्ञा सकलागमस्य कुर्युः परेषामपि तत्समृद्धिम् ॥१९॥ द्रव्यादिभावानवगम्य सम्यग् ये संयमोद्योगविधौ प्रवृत्ताः । प्रवर्त्तयन्तोऽपि यतीन् न यान्ति व्रतातिचारं वपुषोऽपि कष्टम् ॥२०॥ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy