SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ (१-६) पं. श्रीशान्तिसुन्दरगणिलिखितं पत्रषट्कम् (१) स्तम्भतीर्थस्थ-श्रीसोमसुन्दरसूरि प्रति प्रेषितं पत्रम् ........ ...................... ................. पिञ्जरतरैर्भामण्डलैर्भूषयन्, शान्तिस्तीर्थपतिः सतां स तनुतां, तान्तेर्व्यतीतं पदम् ।।३।। योऽत्याक्षीदायताक्षी नृपतिवरसुतां पुण्यकारुण्ययोगात्, योगासङ्गं वितत्याऽकलयदविकलां यश्च कैवल्यलक्ष्मीम् । हन्तुं भावारिवारं भुवनभयकरं व्यूढवर्मेव भाभिः, स श्रीमान्नेमितीर्थाधिपतिरसुमतां सम्पदे संविदे च ॥४॥ प्रेयस्यर्चय पन्नगेश्वरपति कोऽञ्चेत् प्रभो! शङ्करं, स्वच्छे! श्रीपुरुषोत्तमं स्तुहि न हि स्वामिन्! स्तुतिर्मे हरौ । वन्देथाः परमेष्ठिनं प्रियतमे! किं ब्रह्मनत्या विभो!, यत्सेवास्विति सङ्कथा दयितयोः पार्श्वः स वः श्रेयसे ।।५।। नम्रा यन्नखपङ्क्तिषु प्रतिकृतेः सद्यो दशास्यश्रियं, ___ स्वस्याऽऽलोक्य जगज्जयं करतले कुर्वन्ति चित्रं न तत् । त्यक्त्वा यज्जनकात्मजोपरि रतिं यायुः परां निर्वृतिं, तत्त्वाश्चर्यमनारतं स भगवान् वीरोऽस्तु वः शर्मणे ॥६।। जिनेन्द्रदेवं जगदर्चनीयं, गुरून् सुसाधून् गुणराजिभाजः । प्रमाणसिद्धं जिनधर्ममेव, यत्राऽऽस्तिकास्तत्त्वतया विदन्ति ॥७॥ यत्रोत्तुङ्गविहारहारिणि सुधाश्वेतांशुशुभ्राञ् जिना ___कारान् वीक्ष्य विवेकिनः स्मृतिभरैः संस्थापयन्तो हृदि । तय॑न्ते व्यवसायिभिः किमु अमी भूयिष्ठलाभार्थिनः, शुक्लध्यानकणोत्करान् विदधतो कोष्ठे विशिष्टे निजे ॥८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy