________________
जून - २०१३
तं श्रीमन्तमनन्तधर्माध्यासिताविकललोकालोकविलसत्पदार्थसार्थाकलनकुशलकेवलज्ञानदिवाकरं प्रचण्डोद्दण्डाखण्डब्रह्माण्डभाण्डोदरोद्यद्यशस्त्रिदश
तरङ्गिणीतरङ्गाभङ्गनीरपूरप्रवाहपवित्रीकृतदशदिगन्तरं प्रबलविमलध्यानविकराल - कालकरवालकवलितजगज्जनदुर्जयकलाकेलिकलाकलापप्रसरं भक्तिभरप्रणमदमर
२२५
कोटीकोटीरकोटिसण्टङ्कितमणिकिरणमण्डलजलकल्लोलान्तरालसमुल्लसदधिकदीप्यच्चरणपुष्करं हर्षोत्कर्षप्रकर्षप्रसिद्धसिद्धिरमणीरमणीयप्राणाधीश्वरं जगज्जनताहितकरं श्रीसुविधिजिननायकपुरन्दरं प्रणामार्कसोदरस्कन्धमध्यमध्यारोप्य श्रीद्वीपबन्दिरात् श्रीविजयप्रभसूरयः सबहुमानमालापयन्ति -
यथाप्रयोजनञ्चाऽत्र प्रातः प्रकटप्रभासम्भारसारशृङ्गारशृङ्गारितदिग्दन्तावलदन्तालये विकसितकमलवनसमुच्चलत्परागपुञ्जपिञ्जरितभूवलये स्वकरार्धचन्द्रितयामिनीकामिनीसङ्गरङ्गरसिकरोहिणीप्रिये प्राञ्चदपूर्वपूर्वाचलचूलासम्प्राप्ताभ्युदये श्रीसहस्रकिरणोदये सति महेभ्यसभ्यसंशोभितायां सभायां प्रवर्त्तमानसमस्तसिद्धान्तस्वाध्यायविधानक्रमायातोत्तराध्ययनसूत्रस्वाध्याय- श्रीतार्त्तीयीकाङ्गसूत्रवृत्तिव्याख्या-साधुसाध्वीप्रारब्धाध्ययनाध्यापन - सानन्दनन्दिमण्डन - सश्रद्ध श्राद्ध श्राद्धीजनोपधानोद्वाहन-सब्रह्मब्रह्मव्रतसमुच्चारण-सोद्यापननानातपष्करणमालारोपणदीनोद्धरणादिसुकृतकृत्यसमुदये सोदयं सञ्जायमाने परिपाटीप्राप्त श्रीमदाब्दिकपर्वणि सकलजीवामारिप्रवर्त्तन-कुकर्मनिवर्त्तन-समस्तसङ्गीतगीतनीतिरीतिनटनटन
समकालीनवादितवादित्रमाद्यज्जिनभवनपवित्रस्नात्राद्याचारचारिमसप्रभेदसर्वीयस
पर्याविरचन-नानादुस्तपतपस्तपन- सप्रभावप्रभावनाभवन- नवनवक्षणनवक्षणकल्पद्रुकल्प श्रीकल्पसूत्रवृत्तिवाचन-सोत्सवातुच्छसाधर्मिकवात्सल्यविधानमार्गणगणमार्गितार्थप्रदान- साडम्बरचैत्यपरिपाटी प्रकटनादिधर्मकर्म सशर्म समजनिष्ट
श्रीमद्ध्येयध्यानानुभावात् । अपरं शुभवतां
तकृतां कृतान्तनिपुणमतीनां सौवाङ्गान्तिषवार्त्तवार्त्तावावदूकः पर्वलेखस्समागात् । समवगतं च तत्प्रमेयपटलम् । किञ्चाऽस्माकमनुनतिर्ज्ञेया ज्ञाप्या च निकटवर्त्तिनाम् । सकलसङ्घस्याऽस्मद्धर्मलाभो वाच्योऽस्मन्नामग्राहं श्रीजिनपतयः प्रणम्याः । विजयदशम्यामिति श्रेयः ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org