SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २२४ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (५२-५४) श्रीविजयप्रभसूरिप्रणीता: प्रसादपत्र्यः (१) स्वस्तिश्रीलहरीलसद्युतिरहो सौभाग्यभाग्यैकभूः प्रोत्सर्पत्सुयश:समुज्ज्वलमहाकल्लोललीलोच्चयः । विज्ञाताखिलभावभास्वदतुलज्ञानामृतान्तभृतः स श्रीमान् श्रियमातनोतु भगवत्क्षीरोदधिः सन्निधिः ॥१॥ स्वस्तिश्रिया संश्रितमंहिपा, त्रैलोक्यलोकार्थितमोक्षपद्मम् । सेवे यदीयं मकरोऽङ्कदम्भात्, सोऽस्तु श्रिये श्रीजिनपुष्पदन्तः ।।२।। स्वस्तिश्रियां निधिरसावनिशं समन्ता-नानातमांसि हरते जगतां महोभिः । सत्यं प्रमोदवशतो विदधे विधात्रा, श्रीपुष्पदन्त इति नाम ततोऽस्य लोके ॥३॥ स्वस्तिश्रियं दिशतु सज्जनसेव्यमानो, गम्भीरिमासुगुणरत्नगणैर्गरीयान् । स्पष्टं समुद्र इव नैकजडैरलक्ष्य-स्तीर्थोदयो हि सुविधिर्मकराङ्क आप्तः ॥४॥ चित्रं पवित्रं प्रणयञ्जनानां, पराजितो वाऽप्यपराजितोऽक्षैः । श्रीपुष्पदन्तो जयताददोषा-करोऽपि दोषाकरकान्तिकान्तः ।।५।। वाचस्सतां पान्तु पवित्रमूर्ते-र्धर्मोपदेशे सुविधेजिनेशः । दन्तच्छदोद्यद्द्युतिमिश्रिताः किं, गङ्गातरङ्गास्तरुणार्कभासः ॥६।। स्याद् धर्मिणीति प्रवदन्ति धर्मः, चन्द्रप्रभे तत्त्वमसत् प्रबुद्धाः । विलोकयन्तः सुविधौ सुचन्द्र-प्रभत्वसाक्षात्करणाज्जिनेशे ॥७॥ यस्य स्फुरत्पादपयोजयुग्म-नखांशवस्सन्तु समस्तसिद्ध्यै । मन्ये समन्ताद् दशदिक्पदार्थ-प्रकाशदक्षास्तु मणिप्रदीपाः ॥८॥ यदीयपादद्वयकान्तिपुञ्ज-जलप्रवाहे पतितोऽपि भव्यः । समीहितस्थानमुपैति चित्रं, महानुभावो महतां हि लोके ॥९॥ यन्नाममन्त्रमयमङ्गभृतां नितान्तं, सत्कामकुम्भति सुरद्रुमति त्रिलोक्याम् । सार्वः स कन्दलयतूत्तममोदवृक्षं, चित्रं त्वकं दलयतूच्चयशःप्रवादः ॥१०॥ यत्पादनीरजनखद्युतिदीप्रदीपा-दानम्रकम्रजगतीजनतातमांसि । नश्यन्त्यवश्यमनिशं प्रबलप्रकाशात्, सम्पद्घटां घटयताच्छमताघटोऽर्हन् ॥११॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy