________________
जून
-
२०१३
पाक्षिकादिमसत्पर्व - पौषधादिकदेहिनाम् । मिष्टान्नपान-दानं वा-ऽमारिडिण्डिमघोषणम् ॥२८॥ चतुर्थादिमषष्टाष्ट-माष्टाह्निकादिपक्षका । दुस्तप: तपनं जन्तु जातघातनिवर्तनम् ॥ २९ ॥ भूरिलम्भनिका निष्का - द (दा) नं रागादिशामनम् । सप्तदशप्रकाराढ्यं प्रभूतार्चाविधापनम् ||३०|| नानातूर्यालिनिर्घोष-महामहःपुरस्सरवम् । चैत्यपाटीविधानं स्म, वार्षिकं पर्व जायते ॥३१॥ इत्यादि श्रेयसः कर्म, नि:प्रत्यूहतयाऽभवन् । श्रीमतां प्रभुपादानां, प्रसादोदयतो परम् ॥३२॥ तमः स्तोमः पदं चक्रे, श्रीकण्ठकण्ठकन्दले । कान्तिदम्भाद् यथा युष्मत् - प्रतापभानुना जितः ||३३|| कान्दिशीका निते (स्ते) जस्का, गल्लपल्लसमन्विताः । कुवादिनाभजनूभूम दृश्यमानां च कांश्चन: ( ? ) ||३४|| प्रचण्डतापसंयुक्तं, प्रतापं च यतिप्रभोः ।
चङ्गं प्रचण्डमार्त्तण्डं, समीक्ष्येवाऽत्र कौशिकाः ॥ ३५ ॥ युग्मम् ॥ युष्मत्प्रतापतापेन, प्रास्ताभामहिमो यथा ।
पश्चिमाब्धौ ददौ झम्पां, सायंसूर्य: सलज्जकः ॥३६॥ सूर्यो नन्नाम्बुसम्पातं तपस्तीव्रं दधात्ययम् ।
आलम्बन(नं) विना व्योम्नि, समागतः क्षमालयात् ॥३७॥ त्वत्प्रतापास्तमाहात्म्यो लज्जितः श्रमणप्रभो! । युष्मत्प्रतापसादृश्यं, सम्प्राप्तुं च निरन्तरम् ||३८|| युग्मम् ॥ किं वा वरं वरीतुं ......
Jain Educationa International
२१९
नेमि - विज्ञान - कस्तूरसूरि ज्ञानमन्दिर
सूरत
For Personal and Private Use Only
www.jainelibrary.org