________________
२२०
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
(५०)
विज्ञप्तिपत्रम् (त्रुटितम्)
[...]यसारकासारस्थास्नुप्रसृमरशंवरभरसमानन्धमानविवेकिजनमनोमरालजालान् असमानलसमाननिरवगानविविधबुधविधिविधीयमानगौरवगानज्ञानविज्ञानविशदसंपदास्पदपरमदर्शनविविगतविपदुपस्पर्शनत्रिदिवशिवरमारमणीयविश्वस्पृहणीयपरमतमसुखसङ्गमहृदयङ्गमविलासं(स)चङ्गिमदर्शनसन्निदर्शनान् संसारासारदुःप्रापपारपारावारपारप्रापणप्रवणवहित्रान् भव्यजीवराजीवराजीवमित्रान् पवित्रविचित्रपुण्यसत्रजनाज्जेगु(?)जातपरममित्रचारुचारित्रप्रगुणगुणानणुसम(मुल्बणमणिश्रेणिसमाश्रयणाचिरत्नरत्नाकरान् निरवद्यहृद्यपद्यगद्यनिषद्यचातुविविव्य(चातुर्विद्य?) निश्छद्मपद्मासद्मपद्ममधुरतरमनोहररससमास्वादषट्पदललितलावण्यलीलाधरान् कमनीयकान्तसतताविश्रान्तनिर्धान्तमञ्जुलसमुज्ज्वलभावनिशान्तसौरभसंरम्भसंशोभमानकोविदरोलम्बकदम्बकीर्तनीयकीर्तिकोमलकेतकीवासितचराचररुचिरकाननान्तरान् तरलसरलाविरलतारकानायकानिव मदीयहयदे(हृदय?)कुम(मु?)दकमनीयकाननविकसनतत्परान् नयविनयदक्षदाक्षिण्यपुण्यपुण्यनैपुण्यविवेकविचारवावल्प(?)कल्पप्रचारसारपरोपकारव्य(?)नित्य वैयावृत्त्यकृत्यकक्षीकारकप्रमुखगुणगणमणिविपणिपणान् निस्तुलमुक्ताफलशशिमण्डलसुरसरिज्जहिमाचलोपलगोदुग्धोज्ज्वलयशःपूरकाचकर्पूरदलपरिमलपरिमलितदिगङ्गनाहृदयस्थलान् तत्तादृक्षसुलक्षवलक्षतमे विपक्षक्षयबद्धकक्षतपःसहस्रकरप्रकाशविकाशितपण्यपुण्यकमलमण्डलान् परमप्रशमशं(सं)यमनिरुपममनोरमविशदकुमदकान[न?] क्रीडारसलालसकलहंससप्रशंसलीलासंधायकान् अनवद्यविद्यासदास्वाद्यफलपटलाविकलवल्लीविताननिरुपनं(म)रसास्वादसुखानुभवविधायि(य)कान् परमरङ्गदुत्तुङ्गगतोद्वेगसंवेगभङ्गीसधरबन्धुरसुधारसोत्साहप्रवाहसेसिच्यमानविद्वच्चयहृदयसारकेदारवारपण्यपुण्याङ्करपूरान् प्रणयिसकतै(?)हिकामुष्मिकमनोमतकदम्बकसंप्रतिपादनतिरस्कृतसुरतरूणां श्रीगुरूणां पादपद्मविशदंप्रशदतः(विशदप्रसादतः?) । विध(पु?)लमङ्गलावलीमल्लिकावल्लिकाविकासवलितमात्र श्रीपूज्यपादप्रसादाम्बुदोदयतः समुपेयिवान् राजहंस इव रमणीयवर्णरूपः शुभमयस्वरूपः श्रीमतां लेखः । समजनि तदर्शनादस्माकं साकं श्रीसङ्घन मनसि प्रसृमरप्रमोदोल्लेखः । श्रीवर्धमान
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org