________________
जून - २०१३
२१७
__(४९)
श्रीरूपचदलिखितं विज्ञप्तिपत्रम् (अपूर्णम्)
स्वस्तिश्रियाऽन्वितो दद्यान्, नो नाभेयः स शं जिनः । व्यधाद् यशोगतं विश्वं, यस्य खेऽब्जमिषात् शुचिम् ॥१॥ देवाल्यालिर्लसद्वक्त्र-सरोजं किमु सेवते ।। केशपाशमिषात्(द्) युष्मद्-वचःपरागलुब्धधीः ॥२॥ केशपाशमिषेना(णा)ऽयं, खड्गोऽधारि जिन! त्वया । दुष्टाष्टकर्मशत्रूणां, स्कन्धेऽतिपाटनाकृते ॥३॥ किं भुजङ्गोऽभजद् वैनं, केशपाशमिषाज्जिनम् । युष्मद्वक्त्रस्थितब्राह्मी-सुधास्वादस्पृहालुधि(धीः?) ॥४॥ कामाद्रेः किंकृतेऽधारि, जिन क्षिभिदुस्त्वया (?) । स्कन्धे केशजटादम्भात्, श्यामो नीलमणीमयः ॥५॥ प्रभो! स्कन्धे विलिप्तोऽयं, यक्षपङ्कः सुरेश्वरैः । तर्कयन्तीति तत्त्वज्ञाः, बाढं रसिकयाऽनया ॥७|| परीहासकृते रम्या, ब्राया च कमलास्यया । फलिन्या खलु जानेऽहं, प्ररोपिताऽऽम्रतानिनी ॥८॥ युग्मम् ॥ चन्द्रसूर्यौ तुदत्येवा-ऽपवादोऽस्तीति भूतले । तत्स्फेटय जिनाधीश!, मेचकत्वं च मे पुनः ॥९॥ विधुन्तुदो विभुं सेवे, विज्ञप्तिं प्रविधित्सया । समेत्य विष्णुपदात् क्रूरः, केशानां छलतः सदा ॥१०॥ युग्मम् ॥ एनं श्रीनाभिसन्तान-देवाद्रिदेवपादपम् । नाभेयभृङ्गमानाय-मानम्य प्रणाम(पद)पङ्कजम् ॥११॥ ईडरनगरीसज्ञा, पूता सद्भिर्विराजते । श्रीतातचरणाम्भोजैः, कैलासभूरिवेश्वरैः ।।१२।। पौरन्दरीपुरीयं वा-ऽधरागा राजते परा । तत्स्वरूपं विधाय द्राग्, गुरोर्वदनमीक्षितुम् ॥१३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org