________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
( ४८ )
श्रीरङ्गविजयलिखितं विज्ञप्तिपत्रम् (त्रुटितम् )
द्व्यणुकसमवायिकारणरङ्गविजयः सविनयं सस्नेहं विधिवद् विज्ञप्तिपत्रं प्रपञ्चयत्यपरम् । शतशः नतिरवधारणीया । श्रीजितां प्रसाद्या । किञ्च श्रीमदाचार्यवर्याणां सुखस्नेहयुक्तं पत्रमत्र प्राप्तम् । संप्राप्याऽद्वैतानन्दः समजनि । किञ्चात आनन्दपुरसत्कगोकलाभिधबलिभुग्रहस्ते पत्रमेकं प्रेषितम् । तन्मध्ये गूढपाटसत्कमुदन्तमण्डललिखितमासीत् । किञ्चात: पत्रमेकं जगत्तारण्यां पत्रमेकं शुद्धदत्यामेवं पत्रत्रयं लिखितम् । तत्प्राप्तं लिखनीयम् । किञ्च सप्त-छदीवन्ध्यपुर - प्राणपुर - देवसूरि-नाडूल- खीमेल सांडेरावप्रमुखसमस्त श्राद्धाः श्रीजितां श्रीमदाचार्यपुङ्गवानां विशेषानुरागिणः सन्ति । संयतयो (त्यो ) ऽपि तथैवेत्यवधार्यम् । पक्षद्वयं नाऽत्र वरीवरीति । स्वप्नेऽपि नैवं हि विचारणीयम् । समस्तसाधुः किल श्रावकौघो नित्यं च युष्मद्वचनानुयायी ॥१॥
I
२१६
I
इत्यवधार्य पुनरपि पत्रप्रेषणेन मनो मोदनीयम् । किञ्च उ० श्रीसौभाग्यविजयानां पं. विमलविजयानां पं. प्रेमविजय- ग. लाभसागर - मु. लक्ष्मीविजय - साध्वीहीर श्रीप्रमुखसाधुसिन्धुराणां नत्यनुनती प्रसाद्ये । किञ्चात: पं. श्रीउदयविजयगणीनां मु. तिलकविजयस्य च प्रणतिरवधारणीया । मदुचितं कार्य चाऽर्प्यम् । शिष्योऽस्मि, सेवकोऽस्मि, किङ्करोऽस्मि । किं बहुलिपिकरणेन ? प्रभवो ज्ञातारः । पत्रं तूर्णं लिखितमिति बोध्यम् । जिनेन्द्रचन्द्रप्रणामावसरे श्रीमदाचार्याधीश्वराणामभिधानं वारंवारं गृह्यते तदवधारणीयम् । अत्रत्यसङ्घस्य प्रणामोऽवधारणीयः । श्रीजितां विशेषानुरागीत्यवधार्यम् । पारणके श्रीजितां वन्दनेच्छा विशेषतोऽस्ति । पश्चाद्यथा श्रीजितां यथाज्ञा तथा विधीयते । किञ्च प्राग्वाटपक्षीय उ. श्रीमानविजयगणीनां नतिरवधारणीया । श्रीजितां प्रसाद्या नामग्राहं यादवाधीश्वरं प्रत्यहं प्रणौमीत्यप्यवधार्यम् । वलमानं पत्रं प्रदेयम् । मनसा न हेयम् । आश्विन - सिताष्टमीदिने इति मङ्गलमालिका ॥ [पत्रस्याऽस्य प्रारम्भिकांशस्य छायाकृति: (Xerox ) न सम्प्राप्ता ।]
Jain Educationa International
-X-
For Personal and Private Use Only
www.jainelibrary.org