________________
जून - २०१३
इत्यादिविलसच्छर्म, धर्मकर्म सुनर्मकृत् । सञ्जायते महामहं, निरपायं निरन्तरम् ॥५८॥ क्रमायातं तथा पर्व, श्रीमत् पर्युषणाभिधम् । हंसानामिव लोकानां, सदा मानसवल्लभम् ॥५९॥ मार्तण्डवत् पङ्कनिराशकस्य, समीरणस्येव रजोहरस्य । सङ्कल्पितानल्पमनोरथस्य, प्रदानदक्षस्य सुपर्वशाखिवत् ||६०|| महार्थयुक्तस्य निधानवत् तथा विचित्रवर्णस्य पयोजराशिवत् । अलब्धमध्यस्य पयोधिवच्चा - ऽचिन्त्यप्रभावस्य महामणीवत् ॥ ६१ ॥ श्रीकल्पसूत्रस्य नवक्षणेषु, नवक्षणेषूत्तमसङ्घसाक्ष्यम् । प्रभावनापूर्वकवाचनोद्य-दुद्घोषणा मारिमृदङ्गकस्य ॥६२॥ तथोत्तमानां तपसां प्रवर्तन - मनेकपक्षक्षपणादिकानाम् । निवर्तनं चाक्रिककुम्भकारा-यस्कारधावद्रजकादिकर्मणाम् ॥६३॥ [ एतावदेव पत्रं लिखितं भाति ]
Jain Educationa International
=x=
२१५
अमदावाद
ला. द. विद्यामन्दिर ( मुनिश्री धुरन्धरविजयजी द्वारा )
For Personal and Private Use Only
www.jainelibrary.org