________________
२१४
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
नृपाज्ञापालका नित्यं, नितान्तचरणोद्यता । यद्राज्ञः पृतना भाति, यतिश्रेणिरिवाऽमदा ॥४५।। यदीयनामश्रवणेन वैरिणः, चण्डप्रतापा अपि यान्ति दूरतः । मदेन मत्ता अपि सामयोनयः, कण्ठीरवस्याऽभिमुखीभवन्ति किम् ॥४६।। नीत्या युतोऽपि विनयी सुकरोऽप्यदण्डः,
सश्रीगृहोऽप्यपरमः सुदमोऽप्यजेयः । यस्मिन् विभाति स महाधिपतिः प्रजानां,
निःशेषदिग्जिदपि यो विषयेष्वसक्तः ॥४७।। मुखमार्गितदानाप्ति-धनीभवद्वनीपकाः । जिनोक्ततत्त्वनिष्णाताः, त्वदाज्ञापालनतत्पराः ॥४८॥ साक्षाद् वैमानिका देवा, रूपसौभाग्यसुन्दराः । यत्र भान्त्यार्हताः पूता-स्त्वन्नामस्मृतिकारकाः ॥४९॥ युग्मम् ।। एकातपत्रतापत्र-निजाज्ञाया विजृम्भते । रम्भास्पर्द्धिवधूलोके, चारुप्रासादमण्डिते ॥५०॥ स्वस्वधर्मरताशेष-जनमण्डलमण्डिते । अलकापुरसंकाशे, पूज्यपादोपशोभिते ॥५१॥ जिनमन्दिरराजिष्णौ, जीर्णदुर्गाह्वये पुरे । श्रीमच्चरणराजीवैः, पावनेऽनिशसुन्दरे ॥५२॥ युग्मम् ॥ विज्ञातनवतत्त्वादि-चारुश्राद्धसमन्वितात् । मेदिनीकामिनीभूषा-मणेः पत्तनपत्तनात् ॥५३।। इलातलमिलन्मौलिः, शिशुभ्योऽणुतमः शिशुः । सञ्जया लब्धिविमलो, बद्धाञ्जलिपुटस्सदा ॥५४॥ विशाखचक्षुःप्रमितैरदोषैः, सुवन्दनैः शुद्धमनोऽभिवन्द्य । सप्रीति सोत्साहममन्दभक्ति, विज्ञप्तिकामातनुते प्रमोदात् ॥५५।। यथाकृत्यं सदा चाऽत्र, प्रत्यूषे प्रौढपर्षदि । श्रीप्रवचनपूर्वस्य, सारोद्धारस्य वाचना ॥५६।। सद्वृत्तवृत्तियुक्तस्य, तथा पठनपाठनम् । साधूनां श्रावकाणां चो-पधानवहनं महत् ॥५७।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org