SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २१० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (४७) पं. श्रीलब्धिविमलेन प्रेषितं विज्ञप्तिपत्रम् (अपूर्णम्) स्वस्तिश्रीभरभाजनं सुनयनं निःशेषलोकावनं, मुक्तासन्ततिराजमानरदनं वाक्योल्लसच्चन्दनम् । नाभेयादिजिनं सुखालिजननं कन्दर्पविध्वंसनं, वन्दे लोभविनाशनं नतजनं मोक्षायतस्पन्दनम् ॥१॥ स्वस्तिश्रीनिलयं दयारसमयं निश्शेषसौख्यालयं, सद्विज्ञातनयं सदोदयमयं निष्पादिताघव्ययम् । गम्भीराम्बुचयं गुणावलिमयं सम्पत्करं निर्भयं, श्रीवामातनयं सदा सविनयं वन्दे प्रवृद्धोदयम् ॥२॥ आख्यातमीश! भवता भवतापतप्त जीवौघचन्दनरसं नरसङ्घवर्याः । केचित् कृपारसमयं समयं निषेव्य, संयान्ति सिद्धिरमणी रमणीयशोभाम् ॥३॥ श्रीमत्कुशेशयमुखं सततं गताशं, खेदं विना मथितकर्मविपक्षविश्वम् । रम्येन्द्रनीलकरणं शरणं तनूपां, शं दायकं भविकदेहभृतां च शैवम् ॥४॥ योऽजय्यो जगतामपीश! भवता प्रोत्सर्पिदर्पोद्धरः, कन्दर्पो विजित: स एष चरणाम्भोजन्म ते सेवते । व्यञ्जत्केसरिलक्ष्मतोऽद्भुतमिव ब्रह्माच्युतेशादयः, स्वायत्ता विहिता मृगा इव मया सिंहेन भाऽन्वहम् ॥५॥ भ्रान्त्वा भूवलयं गता तु गगने त्वत्कीर्तिहंसी सिता, तत्र स्रष्टुमरालसङ्गमवशाद् गुर्वण्यभूत् साम्प्रतम् । मुक्तं भाति ययाऽण्डकं पृथुतरं मन्दाकिनीरोधसि, बिम्बं रात्रिपतेरिदं जिनपतिः स स्ताच्छ्येि सन्ततम् ॥६॥ यस्येशितुः पादयुगस्य तुल्यता, प्रफुल्लपद्मन समं न युज्यते । जडाश्रितेनाऽजडसङ्गिनोऽनिशं, रजोविमुक्तस्य रजोविराजिना ॥७॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy