SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ २०९ इतीव दुष्पापभरापशान्तये, जयेच्छयैवाऽव्ययराज्यशालिनः । छत्रच्छलादेव शशीवशीशितु-धुंवश्रियेऽशिश्रियदन्तिकं किल ॥१३।। ये केऽप्यधीशा विभवैरधीशा, नाऽनुग्रहं निर्मिमतेऽनुगस्य । ते भूभुजः स्युर्भुजदर्पभङ्गाद्, वराकपाका इव दुर्विपाकाः ॥१४॥ मत्वेति मन्ये वृषभः क्षमीन्दु-श्चतुःसहस्रीमवनीधवानाम् । समं गृहीत्वा व्रततत्परोऽभू-दहो! महोत्साहमतिर्महत्सु ॥१५।। पूर्वं प्रदायैव सुखं स्वसेविने, महोदयं यान्ति महाशयाः स्वयम् । पश्यन्तु सूर्योऽप्यरुणोदयं सृजन्, समभ्युदेति स्वयमस्य पृष्ठतः ॥१६।। नयं किमेनं भगवान् विचारय-न्नाद्यो निजाम्बां कतिचिद् विनेयकान् । महोदयं प्रापयदञ्जसा ततः, परं क्रमेण स्वयमप्युपेयिवान् ॥१७॥ यदुःखमाप्नोति निजानुगामुको, ह्यरुन्तुदं स्यात् तदतीव सुप्रभौ । स्वसेवयाऽऽद्यो भगवान् मरीचये, ददौ पदं स्वं मदपापशामनात् ॥१८॥ न वासुदेवस्य न चक्रिणः श्रियो, नैवाऽऽदृता नाभिभुवा स्वयम्भुवा । दत्ताः पुनस्ताश्च निजानुवर्तिने, मरीचये सुप्रभुता हि तादृशी ॥१९॥ वैराग्यभाजाऽपि च नाभिसूनुना, प्रादायि विद्याधरनायकप्रभा । स्वसेविने श्रीनमये दयालुना, भ्रात्रा समं श्रीविनमिक्षमाभुजा ॥२०॥ कलाभृतः सैव कला महोज्ज्वला, या चेश्वरेण प्रभुणोररीकृता । यस्याः प्रभावादनुजीविनो जनाः, स्फुटं भजन्ते परमेश्वरश्रियम् ।।२१।। मन्ये तदष्टानवति तनूजान्, रणेन रीणांश्चरणे धुरीणान् । सेवाकलायां सुचिरं प्रवीणान्, चक्रे क्रमात् श्रीवृषभः स्वतुल्यान् ॥२२।। न केवलाः स्युर्मनुजेषु दोषा, न वा गुणास्तत् खलु दोषबुद्धिम् । विमुच्य सेवारसिके विधेये, कृपापरः स्यात् परमः प्रभुर्यः ।।२३।। नयं किमेनं हृदये निधाय, महोद्धरं दुर्द्धरतेजसं तम् । आद्यः प्रभुर्बाहुबलि निनाय, परं पदं स्वेन समं समङ्गलम् ॥२८॥ इत्थं प्रभुत्वस्थितितार.... [इतोऽग्रेतनभागस्य पत्राणि विनष्टानि] -x राजस्थान प्राच्यविद्या प्रतिष्ठान, जोधपुर २०४१५ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy