SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २०६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ यत्र पट्टमहिषीमुखं मही-नायकस्य परिमण्डलं किल' । पीतपीतनसपत्रवल्लिकं, लोहितो जयति यामिनीपतिः ॥२॥ व्योमलविशिरसां समुल्लस-त्पद्मरागमणिसद्मनां सदा । यत्र विस्तृतमरीचिसञ्चयै-र्लोहितो जयति यामिनीपतिः ॥३॥ यत्र भूषितवराभिसारिका-चन्द्रकान् स्वजयिनो निशामुखे । ईक्षमीक्षमुदयन् क्रुधावशा-ल्लोहितो जयति यामिनीपतिः ॥४|| प्राप्य यत्र समवर्णतां चतु-र्मासि सूरियशसः प्रकाशते । स्व:करी लसति नीलपूर्वको, लोहितो जयति यामिनीपतिः ॥५॥ आयतायतनसंस्थितो जपा-मुख्यपुष्पपरिपूजितोऽभितः । यत्र जात्यतपनीयनिर्मितो, लोहितो जयति यामिनीपतिः ॥६।। यत्र चैत्यविषये निरन्तरं, सार्वबाह्निकविलेपनार्चया । लक्ष्मणातनयलक्षणं लया-ल्लोहितो जयति यामिनीपतिः ॥७॥ यत्र जात्यकुरुविन्दसोदरैः, सान्ध्यरागनिकरैः परिष्कृतः । कैरवोच्छ्वसनतो दिनात्यये, लोहितो जयति यामिनीपतिः ||८|| [द्रङ्गनामधेयनिरूपणम्] अत्युन्नतः सर्वशिलोच्चयेषु, यथा सुमेरुः समयप्रसिद्धः । सज्जातरूपाद्भुतनन्दनश्री-स्तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥१॥ अभ्युन्नतो हेममयो हिमाद्रि-मन्दाकिनीतोयतरङ्गपूतः । गौरीगुणग्रामवशीकृतेश-स्तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥२॥ यथा स्वयम्भूरमणः समुद्रो, महानुदन्वत् सुगुणैरमुद्रः । सान्द्रः सुधापायिगमागमेन, तथोन्नतद्रङ्ग इहोन्नतत्वम् ।।३।। कैलाशशैलस्य महेशवासा-दलकृतत्वं गिरिचक्रवाले । सुगौरतोच्चैर्गरिमा चकास्ति, तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥४॥ विराजते वासववैजयन्त-स्थलं विचित्रैविबुधावतंसैः । रुद्धं समिद्धं विविधैः प्रसिद्ध-स्तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥५॥ धुसत्पुराधीश्वरवाहनस्य, श्रीहस्तिमल्लस्य यथा प्रथावान् । गणो गुणानां गजमण्डलेषु, तथोन्नतद्रङ्ग इहोन्नतत्वम् ॥६॥ १. स्फुटम् - प्रापा. । २. चन्द्रवंशि विनतो - प्रापा. । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy