________________
जून - २०१३
२०५
चिक्लेश नेशं मदनः स यस्माद्, हृल्लोभकृष्टौ करिणोऽवपाते । विकारयन् खानि तु चुम्बकाख्यो-पलायते पञ्चमुखः करेणोः ॥१२।। देवाधिदेवस्य वयस्यरूपः, कृतः कटीरेण वरिष्टमूर्तेः । शौण्डीर्यशत्रोनिधनाय गन्धो-पलायते पञ्चमुखः करेणोः ॥१३।। स्वामिन्! महादेव इतस्पृहाक्रुत्, त्वमेव शैवाभिमतस्त्वसत्यः । यत् कालिकासंज्ञसुरस्य हन्ता, पलायते पञ्चमुखः करेणोः ॥१४॥ छत्राशनीचामरभृत् सुमेरौ, स्नात्राय यान् पञ्चतनुर्मुमोद' । धृतेस्तवेन्द्रो यशसाऽस्तचन्द्रो-पलाऽयते पञ्चमुख: करेऽणोः ॥१५॥
चतुर्गात्रं च०(?) । विभो! भवद्भाषितमुक्तिमार्गे, कथं जिहे तत्र यतो ममाऽयम् । कर्माष्टकस्य प्रकृतिव्रजः कू-पलायते पञ्चमुखः करेणोः ॥१६॥ न हीनता ते जिन! रत्नसानोः, कनीयसोऽप्यस्ति बलेन यस्मात् । उच्चाटने भारमपेक्ष्य चित्ते, पलायते पञ्चमुखः करेणोः ॥१७॥ जगत्पते! तेऽर्चनयोपलब्धा-क्षयश्रियः प्राज्यमहैर्जनस्य । अहर्गणश्चित्रसुखेन्दुजायां, पलायते पञ्चमुखः करेणोः ॥१८॥ यथा प्रियः सामज इद्धधामा, भूभृत्कुमार्या नयनोत्सवाय । तथाऽर्हदक्ष्णोर्युगलं यदिन्दू-पलायते पञ्चमुखः करेणोः ॥१९॥ त्वयि प्रसन्ने जगतामधीश!, बिभेमि नाऽहं खलु पापवर्गात् । यथा यथार्थाङ्गबलोदये नो, पलायते पञ्चमुखः करेणोः ॥२०॥ इतीदृशाश्चर्यकृता समस्या-पदेन सन्तः कवयः स्तुवन्ति । अर्हन्तमन्तःकरणातिथित्वं, प्रापय्य तं शान्तिजिनेन्द्रचन्द्रम् ।।२१।। इति श्रीशान्तिजिनेन्द्रचन्द्रनमस्कारपद्धतिः ।।
अथ नगरवर्णनम् ॥ यत्र वासवसनाभिमेदिनी-भृत्प्रतापसवितुः समुद्यतः । आतपेन जगति प्रसारिणा, लोहितो जयति यामिनीपतिः ॥१॥
१. स्मरः स आनर्दजितं - प्रापा. । २. अर्थान् जिहानस्य - प्रापा. । ३. गौरीपरीरंभ्यसुरस्य - प्रापा. । ४. रा-टि. । ५. पञ्चतनुर्जजृम्भे - प्रापा. । ६. रदनास्तचन्द्रो - प्रापा. । ७. ७.१. - टि. ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org