SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २०४ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (४५) श्रीयशोविजयवाचकलिखितस्य पत्रस्य प्रथम रूपम (पत्र-खरडो) स्वस्तिश्रियः प्रेयस ईश्वरस्य, प्रजापतेरप्यभिभूतिहेतुम् । स्मरं जिनोऽहन्नु शशादिवत् किं, पलायते पञ्चमुखः करेणोः ॥१॥ इतस्ततोऽर्थाभिनयाय हस्तः, प्रसारितस्ते जिन! देशनायाम् । तापात्मकस्य प्रमयेऽस्या रक्तो-त्पलायते पञ्चमुखः करेणोः ॥२॥ त्वत्किङ्करत्वेन जिनान्तराय-व्याघ्रः सभीर्दूरमियति जन्तोः । यद् वज्रभृद्वाहनतां प्रपन्नात्, पलायते पञ्चमुख: करेणोः ॥३॥ देवेषु यानैर्बहुधेशजन्म-न्यापत्सु सिंहस्थमिभस्थितोऽवक् । निवार्यतां माद्यति मामकस्य, पलाय ते पञ्चमुखः करेणोः ॥४॥ एकान्तवादेन विभो! त्वदीय-स्याद्वादवादस्य विमर्दनं यत् । तद् युक्तयुक्त्याऽघटमानमेवं३, पलायते पञ्चमुखः करेणोः ॥५॥ तथापि नो ते विघटेत नेतः!, सरस्वती स्याद् यदि शीतलोऽग्निः । स्थिरः समीरः समरुः समुद्रः, पलायते पञ्चमुखः करेणोः ॥६॥ त्वन्नामजापादसुमान्निहन्ति, मोहं महीन्द्रं जिन! यत्सुमन्त्रात् । भेको न किं नृत्यति सर्पशीर्षे, पलायते पञ्चमुखः करेणोः ॥७॥ त्वद्देशनासद्मसदेशवर्ती, शान्तः प्रभो! क्रीडति बभ्रुणादिः । नखायमानस्य सुहृत् सुमैत्र्या, पलायते पञ्चमुखः करेणोः ॥८॥ भवानुदस्थाज्जिन! कर्मचौर -निर्घातनार्थं स्वयमेव बुद्ध्वा । केनोपदिष्टो यदिहोपरिष्टात्, पलायते पञ्चमुखः करेणोः ॥९॥ चतुर्दशस्वप्ननिवेदितोद्य-द्भाग्यं प्रभोऽसूचयदप्रयासम् । क्षेतुं खवृक्षांस्तनुलक्ष्मणस्तत्-पलाय ते पञ्च मुख: करेणोः ॥१०॥ विलोकते योगभृदेव देव!, ज्योतिर्मयं त्वां न तु कश्चिदन्यः । व्यालेन किं वा हठिनाऽपि विश्व-प! लायते पञ्चमुखः करेणोः ॥११॥ १. ५.१-टि. । २. प्रमयाय - प्रापा. । ३. प्रध्वंसते कंस इदं मुकुन्दं - प्रापा. । ४. ०शत्रुप्रा.पा. । ५. रा-टि. । ६. बालेन - प्रापा. । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy