________________
२०२
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
( ४४ )
श्रीहेमहंसगणिवरं प्रति प्रेषितं विज्ञप्तिपत्रम्
श्रीमत्प्रेमपुरस्सरार्हतपद श्रीकन्यया निर्ममे, यत्पाणिग्रहणं नरामरगणे भूगोलरङ्गाङ्गणे । दिव्यस्त्रीधवलौघदुन्दुभिरवे त्रैलोक्यकुक्षिम्भरौ, वीर: प्रेमपुरप्रभुः प्रथयतात् प्रेष्ठप्रतिष्ठां समे ॥१॥ यदेककोणके राज - गृहं यस्यैकगेहभूः ।
विशाला द्वारवत्यस्य, माहात्म्यं मीयते कथम्? ॥२॥
तत्र श्रीतत्रभवत्पवित्रक्रमकमलयमलकल्पद्रुमसमाराधनप्रवर्धमानमहेभ्यश्राद्धसर्वाङ्गीणगुणश्रीसमृद्धिभासुरे सुरेश्वरसमान श्रीपातसाहिराज्यलक्ष्मी पौलोमीपरिभोगवासभवने वनेचरीकृतानेकवैरिवारराजसभाशृङ्गार- श्रीमल्लदेवप्रभृतियवहरि - व्यवहारि-घटामनोरमे मनोरमेश्वरप्रोल्लसच्छीललील श्लीलमौलिमन्त्रिवीसलादिब्रह्मचारिश्राद्धरत्नसागरे श्रीअहम्मदावादनगरे ॥
उत्तुङ्गस्तनसारभङ्गुरगतिर्गाङ्गेयगौरद्युतिः,
स्वर्वापीपुलिनायमानजघना फुल्लारविन्दानना ।
रत्नालङ्कृतिरात्तपूर्णकलशा नीरङ्गिकाभ्राजिनी,
Jain Educationa International
भाति त्वत्कपुरप्रवेशकमहारम्भे महेभ्याङ्गना ||३|| हेमाभदेहे सुमहः समूहे मरुल्लतामण्यभिरामनाम । हंसप्रभे हंकृतिताम सेहं सदास्मिदासस्त्वयिहेमहंस ||४||
हेमाभदेहे सुमहःसमूहे, मरुल्लतामण्यभिरामनाम ! | हंसप्रभेऽहं कृति ( त ? ) तामसेऽहं सदाऽस्मि दासस्त्वयि हेमहंस ! ||४||
इत्यादिप्रत्यक्षस्तुतिगोचरीकृतकृतयुगाविर्भावकप्रभावकश्रावकश्रेणिविधीयमान
प्रौढपुण्यकरणीयबीजायमानोपदेश-देशविरत्यादिद्विविधधर्मसंसूत्रणसूत्रधारवच:प्रकार-कारस्करप्रवर-पुष्पितफलितसहकारवत्सर्वजनोपकारसार-सारस्वतसिद्धि
For Personal and Private Use Only
www.jainelibrary.org