SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २०० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ (४३) श्रीलावण्यविजयगणिनो लेखस्यांऽश: पदे पदे पुष्करिण्यः, वृत्तहंसोपसेवितसुनीराः । निर्मलवारितरङ्गैः, पूर्णानि सरांसि सर्वत्र ॥१॥ सर्वर्तुकपुष्पफला, आरामाः सन्ति यत्र स श्रीमान् । देशः सदैव सरसो, जयति श्रीमेदपाटवरः ॥२॥ युग्मम् ॥ तत्र- उदयपुरं वरनगरं, मन्दिरमुदयश्रियः समग्रायाः । विभ्राजतेतरां यत्, वसुधावरवर्णिनीतिलकम् ॥३॥ यत्पुरमानन्दकर, जगदृशामृद्धिपूर्णमालोक्य । मन्ये त्रपाभरादिव, लङ्का दृगगोचरत्वमगात् ॥४॥ यत् पुरमनन्यशोभं, दृष्ट्वा धनधान्यनिचयसंनिचितम् । भोगावती प्रनंष्ट्वा, विवेश पातालमिव गुप्तम् ॥५॥ यत् पुरमनेकलोक-प्रकराकीर्णं विलोक्य विश्वाग्यम् । मन्ये लङ्का जगाम, व्योमपथं किमिव गतदर्पा ॥६।। यत् पुरमिभ्यसहस्र-श्रेणीकलितं समग्रगुणयुक्तम् । भुवनत्रयवरपुरवर-निकरशिरोमौलिमाभाति ॥७॥ यत्र पुरे जिनभर्तुः, सद्मान्यभ्रंलिहानि दीप्राणि । गौरीशाचलशिखरो-पमानतामिव सदा बभ्रुः ।।८।। यत्र पुरे सुजनानां, मनांसि शिखराणि जिनगृहाणां च । अत्युच्चानि त्रिदशा-पगापयःपूरविशदानि ॥९॥ सामन्ताखिलनरपति-भालमणिघृष्टचलननलिनयुगः । श्रीजगत्सिहनामा, सान्वर्थो विश्वविख्यातः ॥१०॥ यत्र प्रजापतिरिव, प्रजाव्र शास्ति वसुमतीपालः । न्यायैकनिष्ठचित्तो, भूमितलव्याप्तकीर्तिभरः ॥११॥ युग्मम् ॥ यत्र पुरे प्राकारः, प्रोद्दीप्रद्गोपुरः सदाकारः । विविधायुधसम्पूर्णः, कपिशीर्षकदम्बकाकीर्णः ॥१२॥ सारसुधाभरलिप्त-श्चकास्ति विश्वत्रयप्रमोदकरः । अत्युच्चो हिमवानिव, पुरमन्वेष्टुं किमत्राऽऽगात् ॥१३॥ युग्मम् ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy