SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १९८ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क तदेभ्यजनयुक्तायां, संसदि प्रतिवासरम् । धर्मकल्पद्रुमाख्यस्य, वाचना प्रविधीयते ॥ ३५ ॥ श्रीमज्जिनेन्द्रभवने-ऽभवन् स्नात्राणि भक्तितः । तथैव साधुवर्गस्या -ऽध्ययनाध्यापनादिकम् ॥३६॥ इत्यादि धर्मकार्याणि क्रियमाणे निरन्तरम् । सर्वपर्वशिरोरत्न-मगाद् वार्षिकसञ्ज्ञकम् ॥३७॥ दुष्टष्टकर्मसङ्घात- घाति षष्टाष्टमादिकम् । विधानं तपसो जात-मात्मनः शुद्धिसिद्धये ||३८|| व्याख्यानैर्नवभिस्तत्राऽनल्पसङ्कल्पपूरणे । वाचनं कल्पसूत्रस्य, कल्पद्रुरिव जङ्गमः ॥३९॥ मार्गणद्रविणादानं, शोषणं दुष्टकर्मणाम् । लोचनेन्दुमितान् [ १२ ] घस्रान्, जीवामारिप्रवर्तनाम् ||४०|| महामहः समं य(ज)ज्ञे, चैत्यानां परिपाटिका । मन्ये सिद्धिवधूभाले, पत्रालीव मनोरमा ॥४१॥ इत्यादिपुण्यकृत्यानि, बभूवुस्तातनामतः । जायन्ते च तथा नित्यं, तातानां सौम्यचक्षुषा ॥ ४२॥ सर्वेषां निजचित्तकल्पितमहाभीष्टार्थसंसाधका - अथ परमगुरुगच्छाधिराजभट्टारकश्रीविजयदेवसूरीन्द्रचन्द्रवर्णनम् ॥ कामं कामगवी सुरद्रुमलतामुख्याः पदार्थाश्च ये, चिन्तारत्नविचित्रचित्रलतिकासत्कामकुम्भादयः । Jain Educationa International खण्ड २ स्तेभ्यस्त्वं मम वाञ्छितार्थकरणाधिक्यं दधानो जय ||४३|| श्रीमत्सूरिराजेन्द्र !, वयं के गुणवर्णने ? | यत्कीर्त्तिकामिनीभाले, कस्तूरीतिलकं नभः ॥४४॥ श्रीमत्सूरिराजेन्द्र-निर्माणे ब्रह्मणः करात् । परमाणुकणाः कीर्णाः, कर्ण-व - कल्पद्रुमादयः ॥४५॥ वर्योऽपि तुर्यारक एव सूरे! चेतश्चमत्कारकरो न चाऽऽसीत् । प्रशंसनीयः किल पञ्चमोऽयं, यत्र प्रभो ! त्वं जनतारकोऽभूः ॥४६॥ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy