________________
१९२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
तेजो यथा स्फूर्तिमुपैति नक्तं, मम स्फुरेदह्नि तथा कुरु त्वम् । विज्ञीप्सयेतीव निकेतरत्नं, समागतं नक्रमिषाद् यदन्तिके ॥७॥ सर्वत्राऽप्यपकीर्त्तिरञ्जनवपुः प्रादुर्भवत्यन्वहं तस्मात् तामपमृज्य निर्मलयशो विश्वे विभो! देहि मे । इत्थं वक्तुमना निकेतनमणिर्यन्नासिकाकैतवादौत्सुक्यं कलयन् समेत्य भगवद्वक्त्रेऽवतस्थे किमु ? ॥८॥ सान्द्रं तमःसमुदयं प्रणिहन्ति नित्यं, प्रोद्यत्प्रदीपकलिकेव यदीयनासा । संसारसागरपतज्जनयानपात्रं, तं शान्तिनाथमनघं प्रणिपत्य भक्त्या ॥९॥ अथ नगरवर्णनम्जिनेन्दुना निर्जितया यशःश्रिया, प्रसत्तिमाधातुममुष्य गङ्गया । सोपानदम्भादिव तद्गृहाङ्गणे, रङ्गत्तरङ्गा उपदीकृता निजाः ॥१०॥ बुब्बूलेन मरुल्लतेव विधिना संयोजिताऽहं जग
च्छ्लाघ्या पापकपालिना सह विभो! दुःखं जहीदं मम । इत्थं वक्तुमनास्तरङ्गितनभःसिन्धुर्विहाराङ्गणे,
चन्द्रारोहणकैतवेन भजते स्माऽभ्येत्य जाने जिनम् ॥११॥ श्रीमज्जिनेन्द्रोऽतिगभीरिमश्रिया, मा मां जयत्वेष इतीव वार्द्धिना । सोपानदम्भात् प्रहिता निषेवितुं, निजास्तरङ्गा भगवद्गृहाङ्गणे ॥१२॥ दाशार्हः स्वपदे दधात्यपि महादेवेन संस्थापितां,
प्रीत्या मां निजमूर्द्धनीति भगवन्! दुःखं ममाऽपाकुरु । आख्यातुं किमिदं जिनं धुसरिता स्वीयोर्मयः प्रेषिताः,
सेवन्ते पुरिचैत्यचान्द्रविलसत्सोपानदम्भादिव ॥१३॥ भिक्षुत्वमीश! जहि मद्दयितस्य शम्भो-विज्ञप्तिकामिति विधातुमिवोत्सुकाऽर्हतः । चैत्याङ्गणे स्थितवती स्फटिकाश्मबद्ध-सोपानकायिततरङ्गसुरश्रवन्ती ॥१४|| मां मानयेद् गौर्यधिकां यथा शिवः, स्वामिंस्तथा च प्रणयेति वक्तुम् । सोपानदम्भात् सतरङ्गगङ्गा, चैत्याङ्गणस्था भजतीव सार्वम् ॥१५॥ गाम्भीर्यमस्मिन् मयि वाऽतिशायि, जिज्ञासयेतीव सुधापयोधिना । श्वेताश्मसोपानमिषाद् विहारे, निजा लहर्यः प्रहिता जिनान्तिके ॥१६॥ मां संत्यजन्तमहितं न कदाचिदौर्वं, दूरीकुरु त्वमिति वक्तुमिवाऽऽर्णवेन । स्वीयोर्मयः प्रतिजिनं शशिकान्तक्लृप्त-सोपानदम्भत इमाः प्रहिता विहारे ॥१७||
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org