SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १९३ निपीयमानाज्जलधेरगस्तिना, स्वपानशङ्काकुलिता इवाऽन्तः । प्रणश्य सोपानमिषात् तरङ्गा-श्चैत्ये समीयुः शरणे जिनस्य ॥१८॥ जिनेन्दुना स्वीयगभीरताभि-य॑त्कारभावं गमितः सुधाम्बुधिः । चैत्ये सितारोहणकैतवेन, प्रेषीत् तरङ्गानिव तं निषेवितुम् ॥१९॥ लक्ष्मीक्रीडागृहे तस्मि-न्नरविन्द इव स्मिते । श्रीमत्तत्र भवत्पाद-पद्मोत्तंसितभूतले ॥२०॥ श्रीमद्देवगुरुध्येय-ध्यानासक्तजनव्रजात् । नगरान्नगरोत्तंसा-दहिमन्नगराभिधात् ॥२१॥ आनन्दचन्द्रिकोन्निद्री-कृतमानसकैरवः । लावण्यविजयः शिष्यो, विज्ञप्तिमुपढौकते ॥२२॥ यथाकृत्यं सदा श्रेयः-शिखरी वृद्धिमश्नुते । श्रीमत्तातपादनाम-स्मृतिजकुसुताजलैः ।।२३।। अथ गुरुवर्णनम्अद्वैतशौण्डीरतया वतीन्दुना, विनिर्जितो निर्जरराजवारणः । प्रसन्नतायाः प्रविधित्सया प्रभो-(जानिभेनेव करं वितीर्णवान् ॥२४॥ यतिक्षितीन्दोर्भुजवैभवेना-ऽभिभूयमानं स्वकरं विलोक्य । मन्दाक्षलक्षीकृतचित्तवृत्ति-र्बभाज कुजं किमु कुञ्जरेन्द्रः ॥२५।। पराजितं यद् भुजवैभवेन, कथञ्चिदालोक्य करं स्वकीयम् । दुःखातिरेकेण करी स्वकीये, क्षिपत्यजस्रं शिरसीव धूलीम् ॥२६।। व्रतिक्षितीन्द्रेण जितेन गत्या, जिगीषता तं पुनरात्मना रिपुम् । गजेन तच्छिद्रदिदृक्षयेव, बाहुच्छलात् प्रैषि करः स्वकीयः ॥२७॥ स्वं प्राभृतीकृत्य करं भुजाङ्ग-मध्येतुकामो गतिमज्जिमानम् । आकारदम्भादिव पादपद्मे, गुरोर्गजेन्द्रः प्रणयत्युपास्तिम् ॥२८।। गुरुणा निजबाहुवैभवैः, स्वकरं जेतुमुरीकृतं हठात् । अधिगत्य गजोऽतिसाध्वसा-च्छरणं शैलरिपोरिवाऽऽश्रितः ॥२९॥ अरुन्तुदं भिन्द्धि मदीयबन्धनं, विज्ञप्तिकां कर्तुमितीव यत्पुरः । दोर्दण्डदम्भादयमात्मनः करः, प्रस्थापितः कुञ्जरपुङ्गवेन ॥३०॥ विज्ञाय वाचंयमवासवेन, गृहीतमात्मीयगतेविलासम् ।। पश्चात् ततो मार्गयितुं गजेन, भुजाङ्गहस्तः प्रहितः किमेषः ॥३१॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy