SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १९१ भोगैकनिर्मोकमकैकहेतुं(?), मन्यु विमुञ्चन्निह हायनोत्थम् । इलातलन्यस्तशिराः प्रणाम, करोति वः शिष्यभुजिष्यमुख्यः ॥७१॥ तत्रत्याःचातुर्योत्तमवार्द्धिवृद्धिविधवो भट्टारकग्रामणी सन्मानोचितचातुरीपरिचिता निस्सीमभाग्योदयाः । सूरिश्रीविजयादिसिंहमुनिपप्रद्योतना दीप्तिमद् वर्याचार्यसुसार्वभौमपदवी प्राप्ताः परां सम्प्रति ।।७२।। श्रीजैनशासनसरोवरपुण्डरीकाः, श्रीपूज्यपादचरणाम्बुजचञ्चरीका: । धन्यानगारसदृशा गुणिनां पुरोगा-श्चारित्रपूर्वविजया वरवाचकेन्द्राः ॥७३।। श्रीसूरिभूरिगुणगानविधानदक्षा, लावण्यपुण्यवपुषः कृतदक्षपक्षाः । विश्वे जयन्ति वरवाचकराजहंसा, लावण्यपूर्वविजयाभिधवाचकेन्द्राः ॥७४।। [त्रुटितमपूर्णं चेदं पत्रम्] -x (२) स्वस्तिश्रियं तनुमतां तनुतां स शान्ति-र्यन्नासिका परमविभ्रममाबिभर्ति । यद्वक्त्रपद्मवसतेः किमु दीपिकेयं, लक्ष्म्या ध्रुवोः कपटतोऽञ्जनमुद्गिरन्ती ॥१॥ गन्धज्ञया श्रीजिनभानुमालिना, नीत्वाऽभिभूतिं किमु कज्जलध्वजाः । कामाङ्कशानां कपटेन बन्दी-कृत्य स्म रक्ष्यन्त पदे स्वकीये ॥२॥ यन्नासिकाया विभवातिरेकं, सम्प्राप्तकामं गृहरत्नमेव । स्थाणुस्थयष्टेरुपरीव तिष्ठद्, विनिर्मिमीते स्म तपोऽतितीव्रम् ॥३।। दशेन्धनत्वं मम तीर्थनाथ!, निवारय त्वं किमिदं विवक्षुः । यन्नासिकाकैतवतः समेत्य, निकेतरत्नं कुरुते स्म सेवाम् ॥४॥ जिनेशितुर्नासिकया स्ववैभवै-विनिर्जिता मन्दिररत्नराजयः । दुःखं दधाना हृदि कज्जलच्छलान्, मुञ्चन्ति किं निःश्वसिताग्निधूमान् ।।५।। दिनेश्वरस्येव दिवस्पृथिव्योः, प्रकाशशक्तिं मम देव! देहि । इतीव वक्तुं स्पृहयन् प्रदीपो, नासामिषाद् यस्य करोत्युपास्तिम् ।।६।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy