SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १७५ (३४) मधूकपुरस्थ-भ. महीचन्द-मेकचन्दान् प्रति पूषन्पुरत: श्रीउदयविजयस्य लेख: स्वस्ति सासार-मसारसंसाराकूपारपारप्राप्त-माप्तोपदेशदेशकमावेशवद्वादिवाग्वारिवाहवातव्रात-मनुतीव्रव्रतव्रजजिताजर्जरकर्माण-मृतममृतनिर्यासवासमूर्तिमन्त-मनन्तराय-मनन्तरायज्ञानविज्ञातविश्वविश्व-मुपविश्वसत्श्वासिचित्तचित्तवृत्तिं पुण्यवैवर्तदृष्ट-मदृष्टगुणगणोदन्वदन्तमुदं तन्वन्तमतिमतिपतिशयाम्नातायति-मायतयशस-मनृशंस-मसंशयशयशयितसिद्धिसुखमुषसि आश्वसेन्यं सेनान्यं यतिसेनाया मूर्जा प्रणनम्य सम्यक् श्रीमति तत्रभवद्भवत्पादपङ्केरुहरजःपावितभुवि शुभविभौ रामराज्य इव सलक्ष्मणे कलाकेलाविव रतियुक्ते वामदेव इव समहिमनि ब्रह्मणीव चतुराननेन स्तुते श्रीमधूकपुरे महीवत् सर्वंसहानां मेरुवद् धैर्यजुषां सर्वशास्त्रकषाश्मनि मृष्ट-शिष्टबुद्धीनां भ० श्री ५ श्री महीचन्द्रमेरुचन्द्रपादपाथोजन्मनां श्रीपूषन्पुरात् अवनतोर्ध्वकाय उदयविजयः सबहुमानं सोल्लासं सोत्कण्ठं सहर्षं. अनामयम(मा)रोग्यवार्तया विज्ञपयति, यथाकृत्यं चाऽत्र श्रेयः, श्रेयः श्रेणयः समेधन्ते एधन्ते च भवतां सुगृहीतनाम्नां नामग्रहणपुरस्सराणि सुखानि, अनुभूयन्ते चाऽस्माभिनित्यं विदुःखानां विदुषां गोष्ठीः साध्यन्ते च व्रतकर्माणि, संगच्छते च भवतां दर्शनमृते सर्वमपि सुखमित्यलमतिपल्लवनेन । श्रीमद्भिरङ्गारोग्यादिवावदूकं वाचिकं प्रसादनीयम् आसादनीयं च कालान्तरे मिलनमिति संभाव्यते । तत्त्वं तु तत्त्वविदो विदन्ति । सार्वप्रणामावसरे स्मारणीयोऽहमिति श्वोवसीयम् । प्रथमज्येष्ठमासि बहुलपञ्चमीकर्मवाट्यामजायताऽऽनन्दः ॥ सूरिविजयसेनाह्वो, रत्नसानुर्नवोऽभवत् । निर्मथ्य यः पयोराशि, यशोलक्ष्मी ललौ स्वयम् ॥१॥ नन्दतान्नन्दिहनूमान्, हीररामानुसृष्टिकृत् । सागरान्तर्गतां पञ्च-ग्रन्थीलङ्कामुवोष यः ॥२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy