________________
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
भेदे द्वन्द्व' इति कैश्चिदुक्तत्वात् । तथा- 'फाल्गुनशुक्लषष्ठी - कर्मवाट्यां' इत्यत्र षष्ठीशब्दे पुंवद्भावेन भाव्यमित्यादि प्रतिभाति ।
१७४
तदेवंभूतप्रयोगभ्रान्तमनस्कानां स्वमतिदोषेणाऽऽविष्कृतपरमतिदूषणानामस्माकं चापलमविगणय्य स्वमतिविलासेनोत्तरं प्रैष्यम् । अन्यच्च - कुमतिकुमुदखण्डनप्रचण्डमार्त्तण्डोपम-सकलामलवेदवेदान्तसिद्धान्तादिविद्याऽवारपारतरण्ड - श्रीमद्व्यासकुलोत्तंस - श्रीमन्नन्दलालजितः किरातार्जुनीयमहाकाव्यस्य पञ्चदश सर्गा अधीताः । अधुना मयाऽभिधानचिन्तामणिर्विलोक्यते । श्रीमतां भवतां स्मरणमहोरात्रे चरीकरीम्यहम् | भवद्भिरपि मदुपरि कृपा सुरक्षणीया । अत्रोचितमनुष्ठानं किञ्चिल्लेखनीयम् । कृपापर्णमाशु देयम् । चैत्रशुक्लसप्तम्यामलेखि पर्णम् ॥ सद्गम्भीरार्थासमापारजैनशास्त्रादिविद्यापारीणजगत्सकलकोविदोत्तमाङ्गकिरीट श्रीक्षमाकल्याणजिते वन्दना मम निवेदनीया ॥
1
पं. श्रीमद्वीरचन्द्रेभ्यो नतिर्निवेदनीया । पं. श्रीखुस्यालचंदजी पं. पुन्यधीरमुनिसुं पं. विनैहेमरी वंदना घणी कृपा राखज्यो । याद करता रहज्यो । वा. श्रीश्रीश्री अमृतधर्मजीगणिसु विजारी जीवराजरी वंदना । बहु कृपा रक्षणीया ॥
Jain Educationa International
-X—
For Personal and Private Use Only
www.jainelibrary.org