________________
जून - २०१३
१७३
(३३) कोविदवरेण्य-श्रीपुण्यधीरजिमुनिवरान् प्रति
श्रीजयकीर्तिमुनिलिखितं पलाशम् स्वस्तिश्रीविलसन्महामणिकलधौतकलितपादपीठतलदीधितिसमवायाविच्छिन्नालङ्कारहारिसंहननराजनिकरोपासितानि विघटितघनपापसन्तापसमवायसपरिधायफलोदयसदिन्द्रनागेन्द्रयोगीन्द्रवृन्दस्तुतानि श्रीमद्वामेयजिनचरणकमलानि मानसकासारे निधाय पञ्चमं प्रीतिपात्रं पत्रं लिख्यते । '
नानाप्रशस्तगभस्तिविशिष्टहीरकगैरिकादिसमवायाविच्छिन्नावनिप्रदेशे श्रीमत्कच्छविषये कान्तितिरस्कृतान्धतमसानेकरुचिरतरमणिमुक्तामुक्ताङ्गनागरिकवधूगतिविलासचलच्चरणचलच्चित्ताभीकेऽनेकाश्चर्ययुक्ते श्रीमण्डवीबिन्दरे स्थितान् निबिडवर्णाज्ञमतितिमिरतिमिरारीन् निखिलवादीन्द्रवृन्दमातङ्गदलनमहानादसमोपमान् श्रीमत्पुण्यधीरजिन्मुनीन् प्रति श्रीमद्विक्रमपुरस्थायिजयकीर्तिमुनिः सादरं सहर्ष नमश्चरीकरीति ।
कुशलव्यूहमिह वरीवृतीति श्रीमत्पार्श्वदेवकृपाकटाक्षात् । तस्मादेवाऽत्रभवतो भवतो तदेव सततं भवतु । अन्यच्च- युष्मत्कृताक्षरविन्यासं सत्समाचारपूर्ण सुवर्णव(प?)र्णमेकमत्राऽऽगतम् । तद्वाचनेन मन्मानस आनन्दथुरभूत् ।
अन्यच्च- श्रीमद्भिर्भवद्भिः पलाशं सम्यक् कृतम् । परं मन्मनः क्वचन प्रयोगे संशेते । तथाहि- भवद्भिः माहं माहं इति णमन्तं नत्वा इति क्त्वान्तं च पदं प्रयुक्तम् । तत् समानकर्तृकक्रियापदप्रयोगाभावादनुपपन्नम् । समानकर्तृकक्रियापदप्रयोग एव पूर्वकाले तद्विधानात् । तथा श्रीआदिनाथप्रभुं इत्यत्र सन्ध्यकरणमप्यनुचितम् । न च विवक्षित एव सन्धिः स्यादिति वाच्यम् । विवक्षा हि वाक्ये । समासे तु सन्धेर्विवक्षाया अनपेक्षकत्वात् 'नित्या समासे' इति प्रागुक्तेः । अत्र हि समासः । किञ्च- सर्वत्र सन्धेरनित्यत्वे 'ओदन्तोधौवेता' वित्यादेरानर्थक्यापत्तिः स्यात् । तथा- 'अनेकनीवृदागतवणिजात्मजे'त्यत्र वणिक्छब्दस्य चवर्गतृतीयान्तत्वात् कुत्वेन 'वणिगात्मजे'ति भाव्यम् । तथा'प्रोद्दामप्रज्ञे'त्यादीन्द्रवज्रायामाद्यतगणभङ्गः । अत्रापि कथञ्चिन्निर्वाहेऽपि दुष्टप्रयोगकरणस्याऽनुचितत्वात् । तथा- 'अहर्दिव'मित्यत्र द्वन्द्वानुपपत्तिः, ‘पदार्थतावच्छेदक
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org