________________
१७२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
इत्यादिमुनिसिंहानां, श्रीतातपदसेविनाम् । ज्ञाप्या प्रणतिरस्माकं, यथार्ह नरकुञ्जरैः ॥३८।। श्रीचन्द्रस्य गणेरत्र, पूर्णचन्द्रगणेरपि । मुनेश्च नयचन्द्रस्य, सुन्दरेन्दुमुनेस्तथा ॥३९॥ सुधीचन्द्रमुनेश्चाऽपि, लक्ष्मचन्द्रमुनेरथ । ज्ञाप्या यथार्हमन्येषां, ज्ञेया नतिस्त्रिसायकम् ॥४०॥ ज्ञाप्या विशेषवृत्तान्ताः, पुराणा अपुराणकाः । श्रीगणाधीशपादानां, श्रुताः केचिद् भवन्ति चेत् ॥४१।। त्रिविक्रमकृता चम्पू-रधुनाऽधीयते मया । अत्र शिशूचितं कृत्यं, प्रसाद्यं साधुपुङ्गवैः ॥४२॥ सागारिणामिहस्थानां, नतिर्जेया विशेषतः ।। पत्तने गृहिणां ज्ञाप्या, वृषाशिस्तत्र मामकी ॥४३।। यत्किञ्चिल्लिखितं खूणं, मयेह मन्दबुद्धिना । क्षन्तव्यं तच्च सर्वस्वं, वन्द्यपादैः कृपापरैः ॥४४॥ श्रीसार्वनतिवेलायां, स्मर्तव्योऽहं शिशुर्मुदा । आश्विनपौर्णमास्यां तु, पूर्णेन्दाविति मङ्गलम् ॥४५॥
इति श्रीगुरुलेखः ॥ लेखकपाठकयोः कल्याणं भवतु श्रीशङ्केश्वरपार्श्व
नाथप्रसादात् ॥ इति मङ्गलम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org