SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १७० अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क नार्यो यस्मिन् वनजवदनाः स्पर्द्धयन्त्यः सुरीभी, रूपाधिक्याद् विशदगमनात् श्वेतपक्षैश्च सार्धम् । सारङ्गाक्ष्यो विपुलजघना नित्यविस्तीर्णचित्ताः, शस्याचाराः शुभगुणभरास्तत्परा धर्मकार्ये ॥ १२ ॥ यस्मिन् सन्ति व्रतिजनगणा नित्यसोल्लासचित्ताः, श्रीवीराज्ञाकरणपटवो ज्ञातसिद्धान्ततत्त्वाः । पूतात्मानः शमरसयुतास्त्यक्तसंसारसङ्गाः, संश्रेयोदं चरणमणिकं सोत्सुकं संदधानाः ॥ १३॥ श्री श्रीमति तत्र विशद - मङ्गलपुरनाम्नि बन्दिरे रम्ये । श्रीतातपादपङ्कज-रेणुभरपवित्रितानन्ते ||१४|| श्रीमद्वीरमग्रामाद्, वीरमग्रामाज्जनालिसङ्कीर्णात् । गजरथकरभतुरङ्गम-संपूरितमध्यभागाच्च ॥१५॥ तरणिप्रमितावर्तक-वन्दनकेनाऽभिवन्द्य सोल्लासम् । सस्नेहं सोत्कण्ठं, सहर्षमेवेह सानन्दम् ॥ १६॥ हर्षोद्रमरोमाङ्कर - हृदयो भून्यस्तको विनेयाणुः । गुणचन्द्रोऽथ विधिवद्, विज्ञप्तेः पत्रिकां तनुते ||१७|| शमिहाऽस्ति यथास्माकं, श्रीगुरुसौम्येक्षणावलोकनतः । श्रीमद्दुरुनाममहा-मन्त्रस्मरणेन पुनरपरम् ॥१८॥ वदननिर्जितपूर्णनिशाकरं, शुचिसुरासुरमानवशङ्करम् । कुसुमकेतन हेलनशङ्करं, समतया चिरमानवशङ्करम् ॥१९॥ सकलपापतिमिस्रदिवाकरं वचनपाटवरञ्जितनागरम् । तपकुठारविदीर्णभवाकरं, शमरसामृतसोमजसागरम् ||२०|| नवसुवर्णवनोद्भवबन्धुरं, विबुधमानवसन्ततिसिन्धुरम् । नृपसमाजसुलब्धसदादरं, सकललोकहितव्रतसुन्दरम् ॥२१॥ शिवलताङ्कुरवर्धनवार्धरं, पदपयोरुहसन्नतभूधरम् । भज गुरुं भविलब्धिकलाधरं, स्वतनुधीर (रि) मतर्जितभूधरम् ॥२२॥ पापं तमो याति दिगन्तरं [?], तपः प्रतापांशुमिहेक्ष्य यस्य । स्फुरत्सना द्वादशभेददीधिति ( ? ), नमामि तं श्रीगुरुलब्धिचन्द्रम् ||२३|| Jain Educationa International For Personal and Private Use Only - खण्ड २ www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy