SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १६८ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २ बृहदबोधतमोऽपनयन्निवा - स्तमितवादिबुधोडुगणो रविः । विशदबोधमनोहर धामभृत् समुदितो मुदितो हि स भासते ॥ ११ ॥ लसदगण्यगुणान्वितभूघनो, मतिमतामवतंससमो दमी । क्षितितले सविपक्षकविव्रजो, विजयतां जयतां दृढमर्ज्जयन् ॥१२॥ प्रसरिसर्त्ति जगत्सु बृहद्यशः, सकलशारदचन्द्रकरोज्ज्वलम् । बहुमदोद्धतधीरजयोत्थितं शुभवतां भवतां भवतां गुरो ! ॥३१ ॥ अथ चकास्तितरां प्रतिवासरं, सुरगुरुप्रतिमोऽखिलविद्यया । स मृदुवाक् जनरञ्जनकोविदः सुकृतिनां कृतिनां पुनरुत्तमः || १४ || तेषां गुरूणां कमनीयलक्षणं, पादारविन्दद्वयमेनसोऽपनुत् । वन्दारुभूमीशकिरीटसुस्रजां, रजस्समूहरनुरञ्जितं महत् ॥ १५ ॥ नंनन्ति मूर्ध्ना शतशोऽथ भक्तियुक्, सन् कर्मचन्द्रः सुमना मनीषिणाम् । स थांदिलाणान्तपुरं वरं पुरां सदाऽधितिष्ठन् रुचिरं चिरन्तनम् ||१६|| युग्मम् ॥ " यतिस्तु तत्रत्यमिति प्रशस्तं स शस्तुमिच्छन् सुवचस्सविस्तरम् । प्रवक्ति युष्मत्कृपयाऽत्र सद्विभो ! समुल्लसन्ती कुशलावलीत्यलम् ॥१७॥ " अथ च निजाकूतं प्रचिकटयिषुर्ग्रदीयसीमिमां वाचमभिदधामि । भवद्विनेयोऽहकम्, भगोऽद्य श्वो वा श्रीगुरूपान्ते व्रजेयमिति विमर्शं विदधानोऽहकं द्राक् श्रीमतां प्रस्थातमेव मां जानीत । ननु चात्रैव कस्यांचिदभ्यर्णवर्तिन्यामेव पुरि स्थाताः प्रागभ्यर्हिताः कैश्चिदभत ( ? ) । कथं तर्हि सत्वरमेवाऽतिदूरस्थले प्रस्थितवन्तो भवन्तो भवन्तसन्तो ( ? ) ऽथैतर्हि भवद्दर्शनरणरणकवतो ममैकैको वासरो हायनसन्निभो व्यत्येतितरामुपलब्धिमतामनुतरेणाऽवगन्तव्यमिति किं बहुना वाक्प्रपञ्चेन ? । प्रतिपर्णं तूर्णं कर्णाभ्यर्णचरिष्णु कार्यं च । तथोदाहार्यमार्यवर्यैर्द्वार्यचि(?) कृपादृक्मयीति मन्तव्यम् । सद्यो हार्दहृद्यानवद्यहृदयेन लब्धवर्णवरेण्येन भवता शुभवता श्रीमता । मिति: प्रौष्ठपदसितप्रतिपत्कर्मवाट्याः ॥ भवदभ्यर्णवर्त्तिनां मुनीनां नत्यनुनतिततयो यथायथं मन्नाम ग्राहं ग्राहं कर्णजाहोपगूहीकार्याश्चेति मङ्गलममलमलं स्तात् लेखकवाचकयोरिति । श्रीमत्तपोगणीयेन श्रीसागरेण भवदंही प्रणिपनीपत्येते ॥ १. उदयं प्राप्तः । Jain Educationa International -X For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy