________________
जून - २०१३
१६७
(३१) वाचक श्रीअमरचन्दं प्रति
मनिश्रीकर्मचन्दस्य लेख: सत्कर्मचन्द्रो लिखति ओं श्री अमरचन्द्रान् प्रतिस्वस्तिश्रीमन्तमाप्तं परमसमरसीभावमासाद्य सद्योध्वस्ताबोधं विशुद्धं प्रशमसुखवतां योगनिद्रां गतानाम् । प्रत्याहारेण नूनं विशदसुहृदये योगिनां प्रस्फुरन्तं नामं नामं प्रकामं त्रिजगदधिपतिं पार्श्वनाथं सनाऽथ ॥१॥ अथास्ति भूस्पृभिरदभ्रविभ्रमै-मा॑तं च निर्भीतिविभूतिसंयुतम् । अखण्डभूमण्डलभूषणं पुरं, भुवस्तले श्रीफलवर्द्धिनामकम् ॥२॥ प्रशस्तवातायनमत्तवारणै-रभ्रोत्कराभैः सद(र?)दभ्रसद्मभिः । विभाति तत्पत्तनमुच्छ्रितैस्ततैः, सना विमानैरिव शर्मदं दिवम् ॥३॥ तदथ दूरि(र)तरादतिभासते, वियति संचरितैर्मरुदीरितैः । ननु विधातृभिरेव पुरश्रियो, जिननिकेतनकेतनराशिभिः१ ॥४॥ बहुलबिल्वहलिप्रियसल्लकी-बकुलसालतलादिकरोलिकैः । पृथुतरं परितोऽस्ति पुरं हि तत्, सुगहनं गहनं सुफलादनम् ॥५॥ प्रदधतां विमलं सलिलं सदा, जलरुहैदलितैर्ललितैर्लसत् । सुरभिमत् पिहितं प्रमदंकरैः, सुसरसां सरसाम्बुदरामभे ॥६॥ सुविपिनेऽस्ति नु यत्र ततिर्युता, श्रमहरैर्ह रिहारिलतोत्करैः । अनिललोलपलाशलतावृतैः, सघननिम्बकदम्बकदम्बकैः ॥७॥ युग्मम् ।। सुकदलीनिलयेषु कलाभृता, विशदसंहननाः सदृशाननाः । असुखहारिणि यत्र सुकानने, सदयिता दयिता विहरन्ति वै ॥८॥ घनघनेऽभ्रपथे कृतगजिते, गतवतां प्रचकास्तितरां मुदम् । सुशिखिनां सुखिनां प्रियनर्तनैः, शुचिकलापकलापभृतां हि तत् ॥९॥ तदधिवसन्ति ससाताः, शिष्यवातैः समावृताः शश्वत् ।
कोविदकोटिकलाभृ-च्छीमदमरचन्द्रमुनिराजाः ॥१०॥ १. प्रसादध्वजसमूहैः । २. वृक्षैः । ३. शोभनं शुकपक्षिकम् । ४. सजलघनकृष्णदीप्ति । ५. मर्कट । ६. शाखासमूहैः । ७. चन्द्रेण । ८. पिच्छसमूह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org