________________
जून - २०१३
(30) पत्तननगरस्थ- वाचक श्रीलावण्यविजयं प्रति श्रीमेघचदमुनेः पत्रम्
श्रिये स वः सप्तमतीर्थनेता, यस्यांऽह्रियुग्मश्रयणादवाप । यः स्वस्तिको मङ्गलतामनर्घ्यं सर्वासु सन्मङ्गलमालिका ॥१॥ रेजुः पञ्चफणा यस्य, शीर्षे पृथ्वीभुवः प्रभोः । मन्ये सुमतयः पञ्च, पञ्चाऽऽचारा इमेऽथवा ॥२॥ अष्टाभिर्भवसम्भवैर्नवनवस्नेहैकपाशैर्दृढं,
बद्धामिन्दुमुखीं विहाय तृणवद् राजीमतीमादरात् । दीक्षां क्षीणभवोऽभजच्छिववधूसंयोगसद्दूतिकां
शङ्खाङ्कः स शिवासुकुक्षिसरसीहंसः शिवायाऽस्तु नः ||३||
यस्मिन् दुष्टकलौ गताखिलमणीयन्त्रमन्त्रप्रभावे,
गोमांसाशनदुष्टमुद्गलदलोद्वासिताशेषदेशे । सर्वत्र प्रचुरप्रभावमहिमाविस्तारमाप्तस्तदा;
स श्रीपार्श्वविभुर्जगत्त्रयजनानन्दकन्दाम्बुवाहः ॥४॥ स्वस्तिश्रीशरणं गता(त? ) प्रहरणं पुण्यश्रियाः प्रापणं,
सत्कारुण्यलतावितानविलसत्संवृद्धिपाथष्कणम् । भव्याभीप्सितपूर्त्तिकामकलशं सर्वापदां वारणं,
१६५
श्रीवामेयममेयमञ्जुमहिमापारं मुदां प्रापणम् ॥५॥ अथ परमगुरुसकलवाचकेश्वरवाचक श्री ५ श्री लावण्यविजयचन्द्रवर्ण[न]म् ॥ पद्मं पादतलं मृशद्(?) गतमदं रेखामिषाद् यद् विभो -
र्वक्त्येवं जडजेन ते मुखशशिस्पर्द्धा मयाऽकारि यत् ।
स्वामिस्तीक्ष्णमुखैश्शिलीमुखगणैर्दुर्वेधसा विध्यते,
मुक्ताय: (?) खलु मेऽभवत् तत इदं प्रत्यक्षसिद्धं फलम् ॥६॥ भव्याज (न)ना(?)ब्जवनराजिनवाम्बुवाहं, संसेवितामरनरोरु (र) गवृन्दनाथम् । मोहान्धकारहनने सहस्रांशुतुल्यं, श्री ऋद्धि-वृद्धिसुखदं प्रणमामि भक्त्या ॥७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org