SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १६३ (२९) जीर्णदुर्गस्थ-वाचक श्रीविनयविजयं प्रति ___ श्रीहीरचन्दमुने: पत्रम् सधेषु शान्ति कुरुतां स शान्ति-र्नाम्ना गुणेनाऽपि सदर्थनाम्ना । यं शान्तिदेवी भजते स्म भावाद्, विश्वत्रयीलोकविलोकनीयम् ॥१॥ यदीयं हरिणो रम्यं, शिश्रिये चरणाम्बुजम् । स्वीयं संसारसागरं, तितीर्घरिव तारकः(कम्) ॥२॥ एवं(नं) श्रीमन्तमर्हन्तं, कृत्वा प्रणामगोचरम् । श्रीमद्राजकोटद्रङ्गात्, तत्र श्रीमतिपूर्वकम् ॥३॥ शिष्याणु रचन्द्राख्यः, प्रेमपूरितमानसः । सम्भाषते ससन्मानं, भक्तिभारभरावहः ॥४॥ यथाजन्यमिह प्रातः, प्राचीनाचलचुम्बति । मयूखमालिनि ध्वस्त-ध्वान्तप्रकरतस्करे ॥५॥ महेभ्यसभ्यसम्पूर्ण-सभायां वाचनं मुदा । भगवत्याख्यसूत्रस्य, प्राणिनां कर्मपाचनम् ॥६।। पठनो(ने)च्छुकसाधूनां, पाठनं पठनं पुनः । इत्यादिदिनकृत्येषु, विद्यमानेष्वविघ्नतः ॥७॥ क्रमायातं सर्वपर्व-शिरोरत्नसमोपमम् । श्रीमदाब्दिकपर्वाऽपि, स्तुत्यं सुमा(म)नसामपि ॥८॥ यत्र कल्पितम(क)ल्पस्य, कल्पसूत्रस्य वाचनम् । समीरगुणसङ्ख्याकैः, प्रभावनादिसंयुतम् ।।९।। षोडशद्युजीवामारि-पटहोद्घोषणं पुनः । सन्तोषणं मार्गणानां, सर्वसाधर्मिपोषणम् ॥१०॥ महामहसमायुक्तं, निर्वृहं भिन्दवियतः (?) । देव-गुर्वोः प्रसादेन, श्रीमतां च हिताशिषा ॥११॥ यदीयकीय॑कूपारो, नवीनोऽभूत् सुदुस्तरः । परमेषां(परेषां) कीर्तिसिन्धूनां, प्रवेशं न ददौ यतः ॥१२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy