________________
१६२
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
गृह्णन्ति ये लोचनयामलस्य, शुद्धं फलं दुर्लभमेव विश्वे । ये प्रत्यहं प्रातरवेक्ष्य तात-पादाम्बुजं भाग्यभरेण लभ्यम् ॥१४४|| (युग्मम्) वनस्पतिप्ररोहाणामपि सत्तीर्थवासिनाम् । धन्यत्वं कथयन्तीह, किं पुनो(न)म(म)हतां नृणाम् ॥१४५।। अगण्यपुण्यलभ्ये हि, तीर्थेऽस्मिन् जङ्गमे समे । भक्तिभाजां च साधूनां, सर्वदा पावनात्मनाम् ॥१४६।। युग्मम् ॥ प्रोद्दामवादिकुलकुञ्जरकुट्टनैक-कण्ठीरवा वरगुणाः प्रवरप्रभावाः । ज्ञाताखिलस्वपर__ गणस्वभावाः श्रीधर्म ___वरा(:) समवाचकेन्द्राः ॥१४७|| श्रीमत्तपागणविशुद्धविशालसौध-स्तम्भोपमाविविधशास्त्रगणानि नूनम् । यैः पाठयद्भिरनिशं गुरुगौरवार्हाः(ह) सत्पाठकत्वममलं सफलीकृतं च ॥१४८॥ पण्डिताः पद्मविजयाः, पण्डितोत्तमताजुषः । नयादिविजयास्तत्र, पण्डिता गुणमण्डिताः ॥१४९।।
(एतावन्मात्रमेवेदं पत्रमुपलभ्यते)
-x
ला. द. विद्यामन्दिर,
अमदावाद सू. ४३४०४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org