SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ १५९ अताड्यजाड्यद्रुकरिर्महानो गुणैरशेषैः सुतरामहानः । प्रोद्दामकामद्विपसिंहरूपः छिनत्त्वपोषान् सविपल्लवान् सताम् ॥११०॥ युग्मम् ।। विलोक्य लोकोऽपि गुरून् स्वचित्ते, विकल्पते किं किल कल्पपादपाः । एते ह्यनन्तोत्तमवस्तुदानाः, कल्पद्रुमाश्चिन्तितमात्रदानाः ॥१११।। पूज्येन पूज्यचरितेन गुणैः स्वकीयैर्येन ह्यसीमपरभाग्यमुनीश्वरेण । साम्यं वदन्ति तव_ [ये] शशिनो मुखस्य ते पण्डिता जगति मुग्धधियो विभोऽमी ॥११२॥ संस्मारिता जगति गौतममुख्यपूज्याः(ज्या) भूयाद् गुरुः स भवतां भवतान्तिशान्त्यै । आस्यं तवाऽतिविमलं मलिनो मृगाङ्को ___ मध्येऽमलस्य मलिनस्य समानता क्व ? ॥११३।। विभ्राजते दन्तततिस्त्वदास्ये, जानेऽहमेवं समसूरिरत्न ! । जिह्वाग्रपद्मस्थितशारदाया हारस्य कण्ठे लतिका विभाति ॥११४॥ त्वद्वक्त्रशुभेन्दुमसौ निरीक्ष्य क्षपाकलङ्की मुनिराज! चन्द्रः । मदाच्छशाङ्कोऽभिषुणोति लाञ्छनं सुगौरदुग्धाम्बुधिमेत्य नित्यशः ॥११५।। मेधाप्रधानैः प्रवराभिधान-बुधैः स्वबुद्ध्यो(ड्य)जितभूरिमानैः । मुक्तावदातैर्विमलावदातै-निषेव्यते सूरिसमाजराजः ॥११६।। जगति विजयराजिनोऽपारिजाता: प्रजापारिजाताः सदाखर्वगर्वीतिगुवर्णवागस्तयः प्रणमदमरकोटयः कामदाः कामदाः श्राग् दोषाश्रिताः क्षिप्तदोषाः समुद्रा अमुद्राः पुनः । सकलकुशलधोरणीभिः समृद्धा विशुद्धाः प्रसिद्धा अयुद्धाः प्रवृद्धाः सुसन्धाः स्वयं गुरुगुणगणसल्लताम्भोधराः ज्ञानपानीयरत्नाकराः सूरिराजाः(जा) जयन्तीश्वराः सुन्दराः ॥११७।। सकलसकलभासिनो भासयन्तोऽर्हतां शासनं शंशयन्तः सुमार्गं समग्रं समयेश्वराः अभिनवतरचारुचातुर्यमाधुर्यगाम्भीर्यसौन्दर्यसुस्थैर्यविश्वाद्भुतौदार्यवर्यादिभिः । सुजगति कलिता गुणैः प्रोद्भवद्धीभराः श्रीकराः श्रीकरा: श्रीद(पदवी)धराः शङ्करा भासुराः नति(त)वति धनदानरे सूरिचञ्चच्छिर:कोटिकोटीरकल्पा विशुद्धावदाता यशोराजिताः ॥११८॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy